This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
सर्वज्ञः- , सर्वज्ञ
सर्वज्ञं मुख्यं ब्रह्म एव न तु प्रधानम् अपरं वा । यथा च – "तथा

सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति

युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते" ....अत्रोच्यते ( ब्र०

सू० १/१/५ शा० भा०) ।
 
४५२
 
-
 

 
सर्वज्ञत्वम्, सर्वज्ञत्व
(क) उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च तत्त्व-

व्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम् (सर्व० सं० पृ० १६६ नकु०) । (ख) सर्वेषां

व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावा-

धिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम्

(सर्व० सं० पृ० ३८५-८६ पात०) (न्यायकोशः) ।
 
-
 

 
सर्वभूताधिवासः - , सर्वभूताधिवास
सर्वान्तर्यामी- व्यापकः । यथा च – "सर्वाणि भूतान्यधिवसन्ति

अस्मिन्निति सर्वभूताधिवासः सर्वाश्रयः" (सं० शा० ३।५८३ अ० टी०) ।
 

 
सर्वमोक्षः - , सर्वमोक्ष
तुरीयः प्रलयः । यथा - "तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः

सर्वमोक्षः । स चैकजीववादे युगपदेव नानाजीववादे तु क्रमेण । सर्वम् एकीभवन्ति

इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो

लयोऽज्ञानेन सहैवेति विशेषः (वे० प० ७ १०) ।
 
सर्वबि

 
सर्ववि
क्रियारहितम्- , सर्वविक्रियारहित
कूटस्थनित्यं ब्रह्म । यथा- "इदं तु पारमार्थिकं,

कूटस्थनित्यं, व्योमवत् सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयं

ज्योतिः स्वभावम्" (ब्र० सू० १ ।१।४ शा० भा०) । यथा च - "सर्वविक्रियारहितम्

इति विकार्यकर्मताम्" (तत्रैव भाम०) ।
 

 
सर्ववेदसम् - , सर्ववेदस
सर्वस्वं धनम् । यथा - सर्ववेदस्य वाजश्रवसः सर्ववेदसं ददौ (क०

उ० १।१ ) । सर्ववेदसं सर्वस्वं धनम् (शा० भा० ) ।
 
-
 

 
सर्वव्यापि - , सर्वव्यापिन्
नित्यं ब्रह्म । यथा - "इदंतु पारमार्थिकं कूटस्थनित्यं, व्योमवत्सर्वव्यापि,

सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयं ज्योतिः स्वभावम् (ब्र० सू० १ ।१।४

शा० भा०) । यथा च - "सर्वव्यापि इति प्राप्तकर्मताम् (तत्रैव भाम०) । यथा च -

"जीवभेदे वस्तुपरिच्छेदात् व्यापित्वभङ्ग इत्यर्थः" (सं० शा० ३।१८३ सु० टी०) ।

यथा च – "सर्वशक्तियुक्तपरादेवता (परं ब्रह्म) । यथा च - सर्वोपेता च तद्दर्शनात्

(ब्र० सू० २।१।३०) । अत्र भामती - एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते

विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति ।

तदुच्यते- सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परादेवतेत्यभ्युपगन्तव्यम् ।
 
-