2023-03-12 05:02:02 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
सर्वज्ञः- सर्वज्ञं मुख्यं ब्रह्म एव न तु प्रधानम् अपरं वा । यथा च – "तथा
सति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति
युक्तम् । यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते" ....अत्रोच्यते ( ब्र०
सू० १/१/५ शा० भा०) ।
४५२
-
सर्वज्ञत्वम् – (क) उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च तत्त्व-
व्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वम् (सर्व० सं० पृ० १६६ नकु०) । (ख) सर्वेषां
व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावा-
धिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम्
(सर्व० सं० पृ० ३८५-८६ पात०) (न्यायकोशः) ।
-
सर्वभूताधिवासः - सर्वान्तर्यामी- व्यापकः । यथा च – "सर्वाणि भूतान्यधिवसन्ति
अस्मिन्निति सर्वभूताधिवासः सर्वाश्रयः" (सं० शा० ३।५८३ अ० टी०) ।
सर्वमोक्षः - तुरीयः प्रलयः । यथा - "तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः
सर्वमोक्षः । स चैकजीववादे युगपदेव नानाजीववादे तु क्रमेण । सर्वम् एकीभवन्ति
इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो
लयोऽज्ञानेन सहैवेति विशेषः (वे० प० ७ १०) ।
सर्वबिक्रियारहितम्- कूटस्थनित्यं ब्रह्म । यथा- "इदं तु पारमार्थिकं,
कूटस्थनित्यं, व्योमवत् सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयं
ज्योतिः स्वभावम्" (ब्र० सू० १ ।१।४ शा० भा०) । यथा च - "सर्वविक्रियारहितम्
इति विकार्यकर्मताम्" (तत्रैव भाम०) ।
सर्ववेदसम् - सर्वस्वं धनम् । यथा - सर्ववेदस्य वाजश्रवसः सर्ववेदसं ददौ (क०
उ० १।१ ) । सर्ववेदसं सर्वस्वं धनम् (शा० भा० ) ।
-
सर्वव्यापि - नित्यं ब्रह्म । यथा - "इदंतु पारमार्थिकं कूटस्थनित्यं, व्योमवत्सर्वव्यापि,
सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयं ज्योतिः स्वभावम् (ब्र० सू० १ ।१।४
शा० भा०) । यथा च - "सर्वव्यापि इति प्राप्तकर्मताम् (तत्रैव भाम०) । यथा च -
"जीवभेदे वस्तुपरिच्छेदात् व्यापित्वभङ्ग इत्यर्थः" (सं० शा० ३।१८३ सु० टी०) ।
यथा च – "सर्वशक्तियुक्तपरादेवता (परं ब्रह्म) । यथा च - सर्वोपेता च तद्दर्शनात्
(ब्र० सू० २।१।३०) । अत्र भामती - एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते
विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति ।
तदुच्यते- सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परादेवतेत्यभ्युपगन्तव्यम् ।