This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः ।

नियतसहोपलम्भश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धि: ( तत्रैव भाम० ) ।
 
४५१
 
-
 

 
सम्यक् चारित्र्यम् - , सम्यक् चारित्र्य
जैनदर्शनस्य पारिभाषिकः शब्दः । पुण्यहेतुः । यथा -

"संसरणकर्मोच्छितावुद्यतस्य श्रद्दाधानस्य ज्ञानवतः पापगमनकारणक्रियानिर्वृत्तिः

(सर्व० सं० पृ० ६५ आर्ह०) (न्या० को०) ।
 
-
 

 
सम्यग्ज्ञानम् - , सम्यग्ज्ञान
(क) यथार्थज्ञानम् । यथा सत्यरजते इदं रजतमिति ज्ञानम् ।

(ख) अविसंवादकं ज्ञानम् । (ग) यतश्चार्थसिद्धिस्तदिति बौद्धा: आहुः (न्या० वि०

टी० पृ० ३-६) । एतन्मते सम्यग्ज्ञानं द्विविधं- प्रत्यक्षं लैङ्गिकं चेति । (घ) येन स्वभावेन

जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयहितत्वेनावगमः इत्यार्हता आहुः ।

तन्मते सम्यग्ज्ञानं पञ्चविधं मतिः श्रुतमवधिः मनः पर्यायः केवलं च (सर्व० पृ०

६३ आर्ह०)। (ङ) सत्त्वपुरुषान्यथाख्यातिस्तथा द्रष्टुः स्वरूपेऽवस्थानम् (पा० यो०

सू० ११३) । इति पातञ्जला वदन्ति ।
 
-
 

 
सम्यग्दर्शनम् - , सम्यग्दर्शन
जैनदर्शनस्य पारिभाषिकः शब्दः । विपरीताभिनिवेशरहितं

शुद्धतत्त्वदर्शनम् । येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता, प्रतिपादिते

तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानम् (सर्व० सं० पृ० ६२ आई०)

(न्या० को०) ।
 

 
सर्गशक्तिः, सर्गशक्ति
पुरुषस्य (जीवस्य) कैवल्यार्थं प्रधानस्य सृष्ट्यर्थं प्रवृत्तिः । यथा

च - "न च पुरुषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् । दृक्शक्तिसर्गशक्तिवैयर्थ्य-

भयाच्चेत् प्रवृत्तिस्तर्हि सर्गशक्त्यनुच्छेदवदृक्शक्त्यनुच्छेदात् संसारानुच्छेदादनिर्मोक्ष

प्रसङ्ग एव । तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्" (ब्र० सू० २ ।२।६ शा०

भा०) । यथा च - "दृक्शक्ति अनुच्छेदवदिति इदानीं भाष्यपाठो दृश्यते । निबन्धे

तु सर्गशक्त्यनुच्छेदवदिति पाठं दृष्ट्वा व्याचष्टे- सर्गेति (वे० क० त० ) ।
 
-
 

 
सर्वकर्माणि - , सर्वकर्मन्
नित्यं नैमित्तिकं काम्यं प्रतिसिद्धं च कर्म । यथा च - "यस्तु

परमार्थदर्शी सः । सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं

काम्यं प्रतिषिद्धं च सर्वकर्माणि तानि मनसा विवेकबुद्ध्या" (गी० ५/१३ शा० भा० ) ।

यथा च – "नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति 'सर्वाणि कर्माणि मनसा' 'कर्मण्यकर्म

यःपश्येत्' इत्यत्रोक्तेनात्रात्मस्वरूपसम्यग्दर्शनेन संन्यस्य परित्यज्य प्रारब्धकर्मवशादास्ते

तिष्ठत्येव" (तत्रैव म० सू० ) ।