This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
....सम्पातशब्देनात्र कर्माशय उच्यते- सम्पतन्त्यनेनास्माल्लोकादमुं लोकं फलोप-

भोगायेति (ब्र० सू० ३।१।८ शा० भा०) । १. (ख) कर्म । येन लोकाल्लोकान्तरं

प्रैति । यथा – "सम्पतत्यनेनास्माल्लोकादमुं लोकमिति सम्पात: कर्म" (ब्र०सू०

१ । १ । ४ वे० क० त० ) । यथा च - "सम्पतत्यस्मादमुं लोकं फलभोगायेति सम्पातः

कर्म, तद्यावत्तावदुषित्वा आवर्तत इति" तत्रैव।
 
४५०
 
-
 
-
 

 
सम्बन्धः - , सम्बन्ध
परैरेकस्य वस्तुनोऽपरेण सह सन्निवेशार्थः सम्बन्धः कल्प्यते । स

च सम्बन्धो नित्योऽनित्यश्च । नित्यः समवायः । अनित्यः संयोगादिः । अयं चाद्वैतिमिः

समालोच्यते । यथा – समवायाभ्युपगमाच्च साम्यादनवस्थितेः (ब्र० सू० २ । २ । १३)।

अत्र शा० भा० ....समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन

सम्बध्यते । द्वाभ्यां चाणुभ्यां द्वयणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः

समवैतीत्यभ्युपगम्यते भवता ।.....यथैव ह्यणुभ्यामत्यन्तभिन्नं सद् द्व्यणुकं समवाय-

लक्षणेन सम्बन्धेन सम्बद्धयत एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन्

समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बद्ध्येत । अत्यन्तभेदसाम्यात् ।

ततश्च तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत । ननु इह

प्रत्ययग्राह्यः समवायो नित्यसम्बन्ध एव समवायिभिर्गृह्यते नासम्बन्धः सम्बन्धान्तरापेक्षो

वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति । नेत्युच्यते-

संयोगोऽप्येवं सति संयोगिभिंर्नित्यसम्बन्ध एवेति समवायान्नान्यं सम्बन्धमपेक्षेत ।

अथार्थान्तरत्वात् संयोगः सम्बन्धान्तरमपेक्षेत । समवायोऽपि तदर्थान्तरत्वात्


सम्बन्धान्तरमपेक्षेत । न गुणत्वात् संयोगः सम्बन्धान्तरमपेक्षते न समवायोऽगुणत्वा-

दिति युज्यते वक्तुम् । अपेक्षाकारणस्य तुल्यत्वात् ।
 
-
 
-
 

 
सम्भूतिः - , सम्भूति
देवादीनामुपासनात्सांसारिकैश्वर्यादिप्राप्तिः । यथा - "सम्भवनं
.

सम्भूतिः सा यस्य कार्यस्य सा सम्भूतिः ( ई० उ० १२ शा० भा०) । यथा च -

"सम्भवात् सम्भूतेः कार्यब्रह्मोपासनादणिमाद्यैश्वर्यलक्षणं व्याख्यातवन्त इत्यर्थः

(तत्रैव १३) ।
 

 
सहोपलम्भः, सहोपलम्भ
येषां ययो र्वा नियमेन सहैव ज्ञानम् । बौद्धैकदेशिमते बाह्यार्था-

भावपक्षे ज्ञानपदार्थयोः सहोपलम्मनियमः । यथा - "अपि च सहोपलम्भनियमादभेदो

विषयविज्ञानयोरापतति । न ह्यनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति " ( ब्र० सू०

२।२।२८ शा० भा० ) । यथा च - "अपि च सहोपलम्भनियमादिति यद्येन सह