This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
४४९
 
सम्प्रज्ञातसमाधिः - , सम्प्रज्ञातसमाधि
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः । (पाः यो०

१ । १७ एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः (सर्व० पात०)

अयं सविकल्पसमाधिः इत्यप्युच्यते।
 

 
सम्प्रदायः, सम्प्रदाय
सम् सम्यक् प्रकारेण प्र प्रकृष्टतया दीयते गुरुद्वारा सविधि

शिष्याय उपदिश्यते सरहस्यं विद्या समर्प्यते स सम्प्रदायः अस्य परम्परापि सम्प्रदायः ।

यथा । सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः (योगिनीहृदये पटले २ श्लो० २६) ।

सम्प्रदायार्थमाह - सम्प्रदाय इति । सम्यक् याथार्थ्येन कर्णे शिष्यस्य प्रदीयत इति

सम्प्रदायः । सम्प्रदायपदेनोच्यमानः समीचीनो निर्दिष्टः (अमृतानन्दकृतदीपिकायाम्) ।

यथा च प्रकृष्टः सर्वातिशायी दायो गुरुपरमगुर्वादिवंशपरम्परायातोऽथवा धनमिव

स्थितोऽतो गुरुमुख एव स्थितो गुरुदययैव लभ्यो यथा यादृशस्तथा ते कथयामि (तत्रैव

भास्करायप्रणीतसेतुबन्धे) यथा च - अनवच्छिन्नपरम्परया आगतः सम्प्रदायः

श्रीशङ्ककराचार्यः गीताभाष्ये आदौ । बृहदारण्यकोपनिषदि तथा तत्रत्यशाङ्करभाष्ये

सम्प्रदायमहिमा पठ्यते । यथा च - "सम्प्रदायो गुरुशिष्यपरम्परया अध्ययनम् ।

एतदुक्तं भवति स्वयंभुवो वेदकर्तृत्वेऽपि न कालिदासादिवत् स्वतन्त्रत्वमपितु

पूर्वसृष्ट्यनुसारेण (ब्र० सू० १ ।३।२८ भांम०) ।
 
-
 

 
सम्प्रसादः - , सम्प्रसाद
१. सुषुप्तस्थानम् । यथा - "तत इदमुच्यते - परमात्मैवेह भूमा

भवितुमर्हति न प्राणः । कस्मात् ? सम्प्रसादादध्युपदेशात् । सम्प्रसाद इति सुषुप्तं

स्थानमुच्यते; सम्यक् प्रसीदत्यस्मिन्निति निर्वचनात् । बृहदारण्यके च स्वप्नजागरित-

स्थानाभ्यां सह पाठात् तस्यां च सम्प्रसादावस्थायां प्राणो जागर्तीति प्राणोऽत्र

सम्प्रसादोऽभि-प्रेयते" (ब्र० सू० १/३/८ शा० भा०) । यथा च - "अत्र हि

सम्प्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुं

नार्थान्तरम्" (तत्रैव शा० भा०) । २. जीवस्यावस्थाभेदः । यथा च - "सम्यक्

प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषप्तिः सम्प्रसादो

जीवस्यावस्थाभेदः न ब्रह्मणः" (तत्रैव भाम०) । यथा च - "एवमेवैष सम्प्रसादोऽ-

स्माच्छरीरातु समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति" (ब्र०

सू० ४।४।१ शा० भा० ) । ३. सुषुप्त्यवस्था । यथा - सम्प्रसादः सुषुप्त्यवस्था । सम्यक्

प्रसीदत्यस्यां जीवस्वरूपमिति व्युत्पत्त्या (त० प्र० स्वप्रकाश प्र० न० प्र० टी० ) ।
 
-
 
-
 

 
सम्प्रसादस्थानम् - , सम्प्रसादस्थान
सुषुप्तिस्थानम् (त० प्र० स्वप्रकाशे न० प्र० टी०) ।

सम्पातः - १. (क) कर्माशयः । येन जीवो लोकाल्लोकान्तरं प्रयाति । यथा - "तस्मिन्

यावत् सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्त्तते यथेतरम्" (छा० ५/१०/५)।
 
-