This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
(
 
सम्पत्तिः - , सम्पत्ति
(क) कारणे कार्यस्य लयः, ब्रह्मणि जीवलयः सम्पत्तिरुच्यते । यथा-

"सता सौम्य तदा सम्पन्नो भवति इत्युक्तायाः सम्पत्तेः" "स्वमपीतो भवतीति लयार्थेन

अपीतिना विवरणाद् वाङ्मनसि इत्यत्रापि सम्पत्तिर्लयः (ब्र० सू० ४ । २ । १ क०

त० प०) । (ख) कैवल्यम्, जीवस्य ब्रह्मरूपताभावः । सम्पत्तिः कैवल्यम्,

ब्रह्मैव सन् ब्रह्माप्येति (वृ० आ० ४।४।६) इतिं श्रुतेः (ब्र० सू० ४।४।१६ ) ।
 
४४८
 
-
 

 
सम्पत्स्ये- , सम्पत्स्यते (सम् + पद्)
सम्पत् लृटि उत्तमपुरुषैकवचने । विमोक्ष्य इत्यर्थः । यथा - तस्य

तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० उ० ६।१४ । २) । शरीरपातावधि-

करणात् क्षेमप्राप्तेः (ब्र० सू० ४/१/१५ शा० भा० ) । यथा च - तस्मादागमानु-

सारतोऽस्ति प्रारब्धविपाकानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि

तत्त्वसाक्षात्कारे (तत्रैव भाम० ) ।
 
-
 

 
सम्परायः , सम्पराय
शास्त्रीयः श्रेष्ठपरलोकप्राप्तिसाधनविशेषः । यथा - न सम्परायः

प्रतिभाति (क० उ० २।६) । सम्परे इयत इति सम्परायः परलोकस्तप्राप्तिप्रयोजन-

साधनावेशेषः शास्त्रीयः सम्परायः (शा० भा० ) ।
 
-
 
-
 

 
सम्परिष्वक्तः - , सम्परिष्वक्त
देहान्तरप्राप्तौ जीवो भूतसूक्ष्मैः परिवेष्टितः (गच्छति) । यथा -

जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय

देहान्तरं प्रतिपद्यत इत्येतदवगन्तव्यम् । ......तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ

देहबीजैर्भूतसूक्ष्मैः सम्परिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् । कुतः प्रश्न-

निरूपणाभ्याम् । ......एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति या पुरुषमतिप्रभवाः

कल्पना व्यापिनां करणांनामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद् वृत्तिलाभस्तत्र

भवति । इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते । मन एव

वा केवलं भोगस्थानमभिप्रतिष्ठेत । जीव एवोत्लुत्य देहाद् देहान्तरं प्रतिपद्यते

शुक इव वृक्षाद् वृक्षान्तरम् इत्येवमाद्याः सर्वा एवानादर्तव्या श्रुतिविरोधात्

(ब्र० सू० ३/१/१ शा० भा० ) । अत्र विभिन्नदार्शनिकमतस्पष्टीकरणार्थं भामती

द्रष्टव्या । सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ (ब्रह्म सू० ३।१।१ ) इत्यादिनोक्तो

द्रष्टव्यः । (घ) मध्वाचार्यास्तु भूतबन्धः संसार इत्याहुः । (ङ) सांख्यास्तु

सूक्ष्म (लिङ्ग)शरीरं पूर्वपूर्वस्थूलशरीरत्यागपूर्वकमभिनवस्थूलशरीरं यदुपादत्ते स संसार

इत्याहुः । तदुक्तम् – संसरति निरुपभोगभावैरधिवासितं लिङ्गम् (सांख्यका०

४०)। इति । (च) आत्मानं देहेनैकीकृत्य स्वर्गनरकमार्गयोः सरति येन पुरुषः स

संसारः । (सर्व० सं० पृ० ४०२ शा०) । समित्येकीकरणे । (छ) संसारो नामाज्ञानम् ।

२. विश्वम् । ३. सङ्गतिः (वाच०) ।