This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
समाधेः अङ्गानि - , समाधि अङ्ग
यथा – अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यान-

समाधयः (वे० सा० ) । यथा च यमनियमासुनुप्राणायामप्रत्याहारधारणा-

ध्यानसमाधयोऽष्टावङ्गानि (पा० यो० सू० २।२९ ) । यथा च यत्रैकाग्रता

तत्राविशेषात् ( ब्र० सू० ४/१/११) । अत्र शाङ्करभाष्ये एकाग्रताया इष्टायाः

सर्वत्राविशेषात् । ननु विशेषमपि केचिदामनन्ति- समे शुचौ शर्करावह्निबालुका -

विवर्जिते शब्दजलाश्रयादिभिः । मनोऽनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणे

प्रयोजयेत् :- श्वें० उ० २।१० - इति यथेति । उच्यते सत्यमस्त्येवं जातीयको नियमः ।

सति त्वेतस्मिंस्तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वाऽचार्य आचष्टे । मनोऽनुकूले

चैषा श्रुतिर्यत्रैकाग्रता तत्रैवेत्येतदेव दर्शयति ।
 

 
-
 
४४७
 
-
 

 
समापत्तिः, समापत्ति
सम् = सम्यग् आपत्तिर्लयः । ब्रह्मसमापत्तिः, ब्रह्मणि लयः । यथा -

"आपत्तिर्लय: " ( ब्र० सू० ४।२४ दे० क० त० ) ।
 
-
 

 
समारम्भः - , समारम्भ
कर्म । यथा - "यस्य यथोक्तदर्शिन सर्वे यावन्तः समारम्भाः सर्वाणि

कर्माणि समारभ्यन्त इति समारम्भाः (गी० ४।१९ शा० भा० ) । यथा च – "यस्य

सर्वे समारम्भा इत्यादिभिः षड्भिः । यस्य विदुषः सर्वे समारभ्यन्त इति समारम्भाः

कर्माणि (तत्रैव नी० क०) । यथा च - वैदिका लौकिका वा समारम्भाः समारभ्यन्त

इति व्युत्पत्त्या कर्माणि ( तत्रैव म० सू० ) ।
 
-
 

 
समुच्चयः, समुच्चय
संग्रहः, द्वयोर्बहूनां वा एकत्र योजनम् । यथा – येऽविद्यां विद्याया

अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादि-

लक्षणामेव केवलामुपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततस्तस्मादन्धात्मकात्

तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के कर्म हित्वा ये नु ये तु विद्यायामेव

देवताज्ञान एव रता अभिरताः । तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयं कारणमाह ।

अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गितैव स्यादित्यर्थ: (ई० ९ शा० भा०) ।
 
-
 

 
समुदायः - , समुदाय
१. बहूनां सङ्घटनम् । २. बौद्धदर्शनस्य पारिभाषिकः शब्दः ।

सृष्टिक्रियाया भूतभौतिकलक्षण: समुदाय उच्यते । यथा - "अपि च चतुर्भिश्चित्तचैत्ता

उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्

भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपडुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते" (ब्र०

सू० २।२।२६ शा० भा०) ।
 
सम्पत् -

 
सम्पत्, सम्पत्
सर्वं खल्विदं ब्रह्मेति ज्ञानम् । यथा - "न चेदं ब्रह्मात्मैकत्वविज्ञानं

सम्पद्रूपम्' (ब्र० सू० १ ।१।४ शा० भा०) । यथा च – "न चेदं ब्रह्मात्मैकत्वविज्ञानमिति ।

कुतः सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति" (तत्रैव भाम०) ।