2023-03-12 05:02:00 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
समाधेः अङ्गानि - यथा – अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यान-
समाधयः (वे० सा० ) । यथा च यमनियमासुनुप्राणायामप्रत्याहारधारणा-
ध्यानसमाधयोऽष्टावङ्गानि (पा० यो० सू० २।२९ ) । यथा च यत्रैकाग्रता
तत्राविशेषात् ( ब्र० सू० ४/१/११) । अत्र शाङ्करभाष्ये एकाग्रताया इष्टायाः
सर्वत्राविशेषात् । ननु विशेषमपि केचिदामनन्ति- समे शुचौ शर्करावह्निबालुका -
विवर्जिते शब्दजलाश्रयादिभिः । मनोऽनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणे
प्रयोजयेत् :- श्वें० उ० २।१० - इति यथेति । उच्यते सत्यमस्त्येवं जातीयको नियमः ।
सति त्वेतस्मिंस्तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वाऽचार्य आचष्टे । मनोऽनुकूले
चैषा श्रुतिर्यत्रैकाग्रता तत्रैवेत्येतदेव दर्शयति ।
।
-
४४७
-
समापत्तिः – सम् = सम्यग् आपत्तिर्लयः । ब्रह्मसमापत्तिः, ब्रह्मणि लयः । यथा -
"आपत्तिर्लय: " ( ब्र० सू० ४।२४ दे० क० त० ) ।
-
समारम्भः - कर्म । यथा - "यस्य यथोक्तदर्शिन सर्वे यावन्तः समारम्भाः सर्वाणि
कर्माणि समारभ्यन्त इति समारम्भाः (गी० ४।१९ शा० भा० ) । यथा च – "यस्य
सर्वे समारम्भा इत्यादिभिः षड्भिः । यस्य विदुषः सर्वे समारभ्यन्त इति समारम्भाः
कर्माणि (तत्रैव नी० क०) । यथा च - वैदिका लौकिका वा समारम्भाः समारभ्यन्त
इति व्युत्पत्त्या कर्माणि ( तत्रैव म० सू० ) ।
-
समुच्चयः – संग्रहः, द्वयोर्बहूनां वा एकत्र योजनम् । यथा – येऽविद्यां विद्याया
अन्याऽविद्या तां कर्मेत्यर्थः । कर्मणो विद्याविरोधित्वात् । तामविद्यामग्निहोत्रादि-
लक्षणामेव केवलामुपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततस्तस्मादन्धात्मकात्
तमसो भूय इव बहुतरमेव ते तमः प्रविशन्ति । के कर्म हित्वा ये नु ये तु विद्यायामेव
देवताज्ञान एव रता अभिरताः । तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयं कारणमाह ।
अन्यथा फलवदफलवतोः सन्निहितयोरङ्गाङ्गितैव स्यादित्यर्थ: (ई० ९ शा० भा०) ।
-
समुदायः - १. बहूनां सङ्घटनम् । २. बौद्धदर्शनस्य पारिभाषिकः शब्दः ।
सृष्टिक्रियाया भूतभौतिकलक्षण: समुदाय उच्यते । यथा - "अपि च चतुर्भिश्चित्तचैत्ता
उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्
भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपडुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते" (ब्र०
सू० २।२।२६ शा० भा०) ।
सम्पत् - सर्वं खल्विदं ब्रह्मेति ज्ञानम् । यथा - "न चेदं ब्रह्मात्मैकत्वविज्ञानं
सम्पद्रूपम्' (ब्र० सू० १ ।१।४ शा० भा०) । यथा च – "न चेदं ब्रह्मात्मैकत्वविज्ञानमिति ।
कुतः सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति" (तत्रैव भाम०) ।