This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
शून्यमिव यदा भवति ध्येयस्वभावावेशात् तदा समाधिरित्युच्यते (तत्रैव व्यासभाष्ये) ।
वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः (पा० यो० सू० १ । १७) । विराम-
प्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (तत्रैव १८ ) । सम्प्रज्ञातसमाधिः सालम्बनः ।
असम्प्रज्ञातसमाधिश्च निरालम्बनः । अयं निर्वीजः समाधिरित्यभीयते । १. समाधानम्,
२. योगशास्त्रज्ञास्तु चित्तस्याभिमतविषयनिष्ठत्वम् (गौ० वृ० ४ । २ ।३६)।
एकाग्रतया मनसः स्थापनरूपो ध्येयमात्रस्फुरणरूपः ध्यानविशेषः इत्याहुः । अत्र सूत्रम्
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः (पात० पा० ३ सू० ३) । इति । तच्चैव
कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते
(वाच०) । इति पुराणमपि । समाधिर्नाम भावना । सा च भाव्यस्य विषयान्तरपरि -
हारेण चेतसि पुनः पुनर्निर्देशनम् (सर्व० सं० पृ० ३५६ पात०) । समाधिः समतावस्था
जीवात्मपरमात्मनोः। ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः (सर्व०
सं० पृ० ३४७ पात०) (न्या० को०) ।
 
समाधिविघ्नाः - यथा - एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वाद-
लक्षणाश्चत्वारां विघ्नाः सम्भवन्ति । लयस्तावदखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर्निद्रा
अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि चित्तवृत्तेः
रागादिवासनया स्तब्धीभावादखण्डवस्त्वनवलम्बनं कषायः । अखण्डवस्त्वलम्बनेनापि
चित्तवृत्तेःसविकल्पकानन्दास्वादनं रसास्वादः । समाध्यारम्भसमये सविकल्पकानन्दास्वादनं
विरहितं
विघ्नचतुष्टयेन
निर्वातदीपवदचलं
वा । अनेन
सदखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पकः समाधिरित्युच्यते । तदुक्तम्-
लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । स कषायं विजानीयाच्छमप्राप्तं न चालयेत् ।
नास्वादयेद् रसं तत्र निःसङ्गः प्रज्ञया भवेत् । यथा दीपो निवातस्थो नेङ्गते सोपमा
स्मृता (वे० सा०) । यथा च - भोगैश्वर्यप्रसक्तानां
 
चित्तं
 
तयापहृतचेतसाम् ।
 
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते (गी० २।४४) । अत्र श्रीधरीटीकायाम्-
भोगैश्वर्ययोः प्रसक्तानामभिनिविष्टानाम् समाधिः
..
 
....
 
-
 
-
 
चित्तैकाग्ग्रं
 
परमेश्वरैकाश्रयाभिमुखत्वं तस्मिन् निश्चयात्मिका बुद्धिर्न विधीयते । यथा च
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
 
चित्तविक्षेपास्तेऽन्तरायाः (पा० यो० सू० १ । ३०) । अन्तराया विघ्ना इत्यर्थः ।
समाधौ इमे विघ्नाः ।