This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
समष्टिः - , समष्टि
समूहगतः
 
= वनमिति वृक्षसमूहः । एवमेव व्यष्टिः व्यक्तिगतः
 
-
 

एकैको वृक्ष इति । यथा - "इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च

व्यवह्रियते ( वे० सा० ) ।
 
=
 
४४५
 
-
 

 
समाधानम् - , समाधान
चित्तस्य एकाग्रता । यथा- चित्तैकाग्रं समाधानम् (वे० प०

८ प०) । यथा च - निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम्

(वे० सा० ) ।
 
-
 

 
समाधिः - , समाधि
१. अन्तःकरणं परमात्मा च । यथा - "समाधीयतेऽस्मिन्पुरुषोप-

भोगाय सर्वमिति समाधिरन्तःकरणं बुद्धिस्तस्मिन् समाधौ न भवतीत्यर्थः

(गी० २।४४ शा० भा० ) । यथा च - "समाधौ समाध्यनुष्ठानकाले" (तत्रैव

नी० क० ) । यथा च - "समाधीयतेऽस्मिन्सर्वमिति व्युत्पत्त्या समाधिरन्त करणं

वा परमात्मा वेति नाप्रुसिद्धार्थकल्पनम् । अहं ब्रह्मेत्यवस्थानं समाधिस्तन्निमित्तं

व्यवसायात्मिका बुद्धिर्नोपपद्यत इति व्याख्याने तु रूढ़िरेवादृता" (तत्रैव म० सू० ) ।

एवमेव गीतायाम् २ । ५३ श्रीधरीव्याख्यायां तथानन्दगिरिव्याख्यायां समाधिः

परमेश्वर इति । २. परमात्मा "सकृज्ज्योतिरात्मचैतन्यस्वरूपेण समाधिः समाधि-

निमित्तप्रज्ञावगम्यत्वात् । समाधीयते अस्मिन्निति वा समाधिः" (मा० उ० गौ० का०

३।३७ शा० भा० ) । यथा च - "अस्मिन्परस्मिन् नात्मनि समाधीयते निक्षिप्यते

जीवस्तदुपाधिश्चेति समाधिः परमात्मा । समाधिनिमित्ततया प्रज्ञया तस्यावगमत्वाद्

वा समाधित्वमवगन्तव्यम्" (तत्रैव ३ । ३७ आ० टी० ) । यथा च - "समाधीयते

चित्तमस्मिन्निति समाधिरात्मा" (गी० २।५३ शा० भा० ) । यथा च - "समाधौ

परमात्मनि" (तत्रैव म० सू० ) । ३. मनस एकाग्रता ध्येयाकाररूपता वा । यथा -

ध्यातृध्याने परित्यज्य क्रमाद् ध्येयैकगोचरम् । निवातदीपवच्चित्तं समाधिरभिधीयते

(प० द० १-५५) । ४. मनसो निग्रहः । यथा - "निगृहीतस्य मनसः श्रवणादौ

तदनुगुणविषये च समाधिः समाधानम् (वे० सा०) । यथा समाधिर्द्विविधः सविकल्पको

निर्विकल्पकश्चेति । तत्र वृत्यन्तरनिरोधपूर्वकं चित्तस्य ज्ञेयात्मनावस्थानम् । स

च द्विविधः सविकल्पकः, निर्विकल्पकश्चेति । इमौ एव सम्प्रज्ञातासम्प्रज्ञातसमाधि-

शब्देनापि साम्प्रदायिकैः उच्येते । यथा च - तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव

समाधिः (पा० यो० सू० ३ । ३) । ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण
 
-
 
-