2023-03-26 08:41:26 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
नित्यं किमपि नास्तीति - रीत्या अद्वैतिन एतन्न मन्यन्ते । यथा - यथैव
ह्यणुभ्यामत्यन्तभिन्नं सद्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यत एवं
समवायोऽपि समवायिभ्योऽत्यन्त-भिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन सम्बध्येत
अत्यन्तभेदसाम्यात् । ततश्च तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव
प्रसज्येत । ननु इह प्रत्ययग्राह्यः समवायो नित्यसम्बन्ध एव समवायिभिर्गृह्यते नासम्बन्धः
सम्बन्धान्तरापेक्षो वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यो येनानवस्था
प्रसज्येतेति, नेत्युच्यते - संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बन्ध एवेति
समवायसम्बन्धवन्नान्यं सम्बन्धमपेक्षेत । अथार्थान्तरत्वात् संयोगः सम्बन्धान्तरमपेक्षेत ।
समवायोऽपि तर्ह्यर्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत । न च गुणत्वात् संयोगः
सम्बन्धान्तरमपेक्षेत न समबायोऽगुणत्वदिति युज्यते वक्तुम् । अपेक्षाकारणस्य तुल्यत्वात् ।
गुणपरिभाषायाश्चातन्त्रत्वात् । तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था
(ब्र० सू० २/२/१३ शा० भा० ) । यथा च - समवायासिद्ध्या (वे० प० १ प०) ।
४४४
१. (पदार्थः) इहेदमिति यतः कार्यकारणयोः स समवायः (वै० ७।२।२६)।
तदर्थश्च कार्यकारणयोरवयवावयविनोर्यतः सम्बन्धात् इहेदमिति प्रत्ययः स
समवायः (वै० वि० ७।२।२६) । अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्धः इह
प्रत्ययहेतुः स समवायः (प्रशस्त० १ पृ० २५) । इति । स च अयुतसिद्धयोः सम्बन्धः
(त० भा० १) । स च यथा अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः
जातिव्यक्त्योः विशेषनित्यद्रव्ययोश्च सम्बन्धः (त० स०) (प०मा० पृ० ३८) ।
यथा - घटकपालयोः सम्बन्धः समवायः । एवमन्यत्राप्यूह्यम् । तदुक्तं घटादीनां
कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः (भा०प०
श्लो० ११) (न्या० को०) ।
-
-
समवायिकारणम्
त्रिविधकारणेष्वन्यतमम् । यथा- कारणं त्रिविधम्-
समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्
(त० सं० ) । यथा तन्तवः परस्य, मृद् घटस्य । इदमेव उपादानकारणम् । तत्र
अद्वैतिन एवं मन्यन्ते । यथा- "उक्तपदार्थद्वयेन परवस्तु समवैतीति यत्तत्कणभुगिच्छ-
तीत्यत आह तज्जनिशब्दवाच्यमितो नान्यज्जनिशब्दवाच्यमिच्छतीति योजना
(सं० शा० ३/२०९ अ० टी०) ।