This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
४४३
 
-
 
समता - सर्वत्र ब्रह्मेति बुद्ध्या सर्वेषु समानबुद्धिः रागद्वेषराहित्यम् । यथा -
"समता समचित्तता" (गी० १०/५ शा० भा० ) । यथा च - "समता चित्तस्य
रागद्वेषादिरहितावस्था" (तत्रैव म० सू०) ।
 
समदुःखसुखः - द्वेषरागयोरभावाद् दुःखसुखसमानावस्थः पुमान् । यथा -
समदुःखसुखः समे दुःखसुखे द्वेषरागयोरप्रवर्त्तके यस्य स समदुःखसुखः
(गी० १२/१३ शा० भा० ) । यथा च - "अत एव समदुःखसुखे यस्य" (तत्रैव नी०
क०) । यथा च – "द्वेषरागयोरप्रवर्त्तकत्वेन समे दुःखसुखे यस्य सः (तत्रैव म० सू० ) ।
यथा च – "अत एव समे द्वेषरागयोरप्रवर्त्तकत्वे सुखदुःखे यस्य" (तत्रैव भाष्यो०) ।
यथा च - "कृपालुत्वादेबान्यैः सह समे दुःखसुखे यस्य सः" (तत्रैव श्रीधरी) ।
 
-
 
समन्वयः - परस्परविरोधिनां वाक्यानां विषयाणां वा एकस्मिन्नर्थे पर्यवसानं
तात्पर्यग्रहणं वा । यथा - "सम्यगन्वयः समन्वयस्तस्मात्" (ब्र० सू० १ ।१।४ भाम० ) ।
 
समप्राप्तम् - ब्रह्मज्ञानान्तरं विषयविनिवृत्तिः । यथा- "यदा तु समप्राप्तिः
अभिमुखो भवतीत्यर्थः । ततस्तन्न विचालयेत् विषयाभिमुखं न कुर्यात् इत्यर्थः"
(मा० उ० गौ० का० प्र० ३ । ४४ शा० भा० ) । यथा च - "ततो निर्विशेषवस्तुप्राप्त्याऽऽभि-
मुख्यादनन्तरमित्यर्थः (तत्रैव शा० भा० आ० टी०) ।
 
-
 
-
 
समबुद्धिः - सर्वं ब्रह्मेति ज्ञानेन इष्टानिष्टरागद्वेषहर्षविषादादिभ्यो रहिता
सर्वत्रैकरूपा बुद्धिर्यस्य सः । यथा - "समबुद्धयः समा तुल्या बुद्धिर्येषामिटानिष्टप्राप्तौ
ते समबुद्धयः" (गी० १२।४ शा० भा०) । यथा च - "समा चाञ्चल्यहीना बुद्धिर्येषां
ते समबुद्धयः (तत्रैव नी० क०) । यथा च - "समा तुल्या हर्षविषादाम्यां रागद्वेषाभ्यां
च रहिता मतिर्येषाम् । सम्यग्ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वाद् विषयेषु दोष-
दर्शनाभ्यासेन स्पृहाया निरसनाच्च ते सर्वत्र समबुद्धयः" (तत्रैव म० सू०) ।
 
-
 
समवर्तत - सम् अवर्तत तदेव पूर्वमासीत् तदेव अजायत इत्युच्यते । यथा-
"हिरण्यगर्भः समवर्त्तताग्रे" समवर्ततेत्यजायतेत्यर्थः । तथा " स वै शरीरी प्रथमः
स वै पुरुष उच्यते" । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इति च " (ब्र० सू०
शा० भा० १।२।२३ शा० भा०) । यथा च - "तस्माद्धिरण्यगर्भ एव भगवान्
सर्वभूतान्तरः कार्यो निदिश्यत इति साम्प्रतम् (तत्रैव भाम० ) ।
 
समवायः - न्यायशास्त्राभिमतसप्तपदार्थेष्वन्यतमः नित्यः पदार्थः सम्बन्ध-
विशेषः । यथा- नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्मध्ये
एकमविनश्यदपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ
 
-