This page has been fully proofread once and needs a second look.

शासप्तभङ्करवेदान्तकोशः
 
गीनयः, सप्तभङ्गीनयः –
स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः

स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्यः इति

न्यायः (सर्व० सं० पृ० ८२ आई०) (न्या० को०) ।
 
४४२
 
-
 
-
 

 
सप्तभङ्गी न्यायः - , सप्तभङ्गिन् न्याय
जैनदर्शनाभिमतोऽयं न्यायः । यत्र सर्वमपि सम्भाव्यते

स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति चेत्यादिरूपेण । यथा - "सर्वत्र चेमं

सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, स्यान्नास्ति स्यादस्ति च नास्ति च,

स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति

चावक्तव्यश्चेति । एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति ( ब्र० सू०

२।२।३३ शा० भा०) यथा च - "राप्त एकान्तत्वभङ्गः कथं कथं कदा कदा च

प्रसरन्त्यपेक्षायामनन्तवीर्यः प्रतिपादयामास - तद्विधानविवक्षायां स्यादस्तीति गति-

र्भवेत् । स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते । क्रमेणोभयवाञ्छायां प्रयोगः

समुदायभृत् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः । आद्यावाच्यविवक्षायां पञ्चमोऽभङ्ग

इष्यते । अन्त्यावाच्यविवक्षायां षष्ठो भङ्गसमुद्भवः । समुच्चयेन युक्तश्च सप्तमो भङ्ग

उच्यत इति युगपदुक्तित्वयोर्विवक्षायां वाचः क्रमवृत्तित्वादुभयं युगपदवाच्यम् ।

आद्योऽस्तित्वभङ्गोऽन्त्येनासत्त्वेन सह युगपदवाच्यः अन्त्यश्चाद्येन भङ्गेन सह युगपदवाच्यः ।

समुच्चितरूपश्च भङ्ग एकैकेन सह युगपदवाच्य इत्यर्थः (तत्रैव वे० क० त० ) ।
 

 
सप्तान्नानि- , सप्तान्नम्
मर्त्यान्नमेकं देवान्ने द्वे पश्वन्नं चतुर्थकम् । अन्यत्त्रितयमात्मार्थ-

मन्नानां विनियोजनम् ब्रह्मादिकं दर्शपूर्णमासौ क्षीरं तथा मनः । वाक् प्राणश्चेति

सप्तत्वमन्नानामवगम्यताम् (१० ८० ४/१५-१६) ।
 
-
 

 
समम् - , सम
१. ब्रह्मेति बुद्धया सर्वत्र एकतुल्यं ज्ञानम् । यथा- उत्तमब्राह्मणे

चाण्डालादौ वा समं ब्रह्मैव सद्रूपेण स्फुरणरूपेण च भासमानं द्रष्टुं शीलं येषां ते

समदर्शिनः (गी० ५/१८ नी० क०) । २. ब्रह्म । यथा - निर्दोषं हि समं ब्रह्म (गी०

५/१९) । समः सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् (गी० १३।२७) समं पश्यन् हि

सर्वत्र समवस्थितमीश्वरम् (गी० १३।२८) । समोऽहं सर्वभूतेषु (गी० ९/२९) ।

३. सुखदुःखजयपराजयसिद्ध्यसिद्धिपापपुण्यसाध्वसाधुब्राह्मणश्वपाकश्वप्रभृतिषु सर्वत्र

एकरूपेण समानरूपेण दर्शनम् । यथा - समदुःखसुखं धीरम् (गी० २/१५) । सुखदुःखे

समे कृत्वा (गी० २।३८) । समः शत्रौ च मित्रे च (गी० २।१८) । समः सिद्धावसिद्धौ

च (गी० ४।२२)। सिद्ध्यसिद्ध्योः समो भूत्वा (गी० २।४८) समो हि सर्वेषु भूतेषु

(गी० २।२९) । समः शत्रौ च मित्रे च (गी० २।१८) । साधुष्वपि च पापेषु

समबुद्धिर्विशिष्यते (गी० ६।९) ।