2023-03-26 07:57:45 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
अचेतनत्वात् सत्त्वस्य, अविक्रियत्वात् क्षेत्रज्ञस्य । अविद्याप्रत्युपस्थापितस्वभावात्वाच्च
सत्त्वस्य सुतरां न सम्भवति" (ब्र० सू० १ ।२।१२ शा० भा० ) । सत्ताशब्द-
वदस्यार्थोऽनुसन्धेयः । २. सांख्यास्तु प्रकाशादिसाधनं प्रकृत्यवयवः(प्रकृतेः सत्त्वगुणः) ।
पदार्थः । यथा सत्त्वात्सञ्जायते ज्ञानमित्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तं सत्त्वं
लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो
वृत्तिः (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्त्वस्य लक्षणम् (सांख्य-
चन्द्रि० १३) इति । ३. वैयाकरणाश्च द्रव्यम् । यथा - सत्त्वे निविशतेऽ पैति पृथग्जातिषु
दृश्यते । आधेयश्चाक्रियाजश्च स सत्त्वप्रकृतेर्गुणः (व्या० का०) । सत्त्वप्रधानानि
नामानि (निरूक्त०) इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । सत्त्वे निवशत इत्यस्यार्थश्च
वोतो गुणवचनात् (पाणि० सू० ४।१०।४४) । इति सूत्रे तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणे
द्रष्टव्यः । ४. योगशास्त्रज्ञास्तु चित्तम् । यथा सत्त्वे तप्यमाने तत्संक्रान्तः पुरुषोऽपि
तप्यते (पात० भा०) । इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः ।५. प्राणाः इत्यौपनिषदा आहुः ।
६. पिशाचादि इति मातृका आहुः । ७. आयुः इति भिषज आहुः । ८. व्यवसायः ।
९. बलं चेति काव्यज्ञा आहुः । १०. स्वभावः । ११. आत्मा । १२. जगत्कारणे येयं
सुखात्मकता तत्सत्त्वम् (सर्व० सं० पृ० ३२६ सा० ) । १३. अर्थक्रियाकारित्वं सत्त्वम्
(सर्व० सं० पृ० ५० आई०) । १४. त्रिविधं सत्त्वं परमार्थसत्त्वं ब्रह्मणः । अर्थ
क्रियासामर्थ्यं सत्त्वं मायोपाधिकमाकाशादेः । अविद्योपाधिकं सत्त्वं रजतादेः (सर्व०
सं० पृ० ४४६ शां० ) ।
४४१
-
सनातनः
नित्यः अनुत्पन्नः आत्मा । यथा - "तस्मान्नित्यो नित्यत्वात्सर्वगतः
सर्वगतत्वात् स्थाणुः स्थाणुरिव स्थिरः । इत्येतत् स्थिरत्वात् अचलोऽयमात्माऽतः
सनातनश्चिरन्तनो न कारणात्कुतश्चिन्निष्पन्नोऽभिनन्
२ । २४ शा० भा० ) । यथा च - "सनातनश्चिरन्तनस्त्वं पुरुषः परो मतोऽभिप्रेतो
मे मम (गी० ११/१८ शा० भा०) ।
-
सनातनम्
१. नित्यम् । यथा - "सनातनं नित्यं बीजान्तरादनुत्पन्नम्"
(गी० ७/१० नी० क०) । यथा च - "बीजान्तरापेक्षयानवस्थां वारयति । सनातनं
चिरन्तनम्" (तत्रैव भाष्यो०) ।
-
-
सन् -
सन्, सत्
आत्मा । यथा - "सच्छन्दार्थोऽपि च पर्यालोच्यमानो न मुख्यादात्मनोऽन्यः
सम्भवति, अतोऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्योऽनृतत्त्वोपपत्तेः (ब्र० सू०
३।३।१७ शा० भा० ) ।