This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
सद्रूपं कल्पितम् । प्रत्येकं तदनुबिद्धत्वेन प्रतीयमानत्वात् । प्रत्येकं चन्द्रानुविद्ध-

जलतरङ्गवत् इति ब्रह्मसिद्धिकारोक्तमपि साधु । यथा च द्विविधाः धर्माः

भावरूपा अभावरूपाश्चेति । तत्राभावरूपा नाद्वैतं विघ्नन्ति (ब्रह्मसिद्धौ ब्रह्मकाण्डे) ।

भाव एव सत्पदार्थः सत्पदार्थः एव सत्ता सत्ता च सामान्यम् । सामान्यं जातिः ।

जातिरेव प्रातिपदिकार्थो धात्वर्थश्च । एतत्सर्वं स्फोटात्मकं शब्दतत्त्वमेव । तस्माद्

शब्दाद्वैतमपीदमुच्यते । उक्तं च - तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या

सा महानात्मा तामाहुस्त्वतलादयः (वाक्यपदीये ३ जा० स० ४ का० ) । सत्ता

त्रैविध्यम् = सत्ताशब्दो द्रष्टव्यः । अधिकं च मदीये शङ्करात् प्रागद्वैतवादग्रन्थे

मण्डनमिश्राध्याये द्र० ।
 
-
 
-
 
-
 
--
 
-
 
"
 
-
 
सत्यम् -

 
सत्यम्, सत्य
१. ब्रह्म । यथा - "सत्यशब्दस्य ब्रह्मणि असकृत् प्रयुक्तत्वात्

(ब्र० सू० ३ ।३।३१ शा० भा०) यथा च - सत्यस्य सत्यं तत्परं ब्रह्म अतो युक्तमुक्तं

नामधेयं ब्रह्मणः नामैव नामधेयम् (बृ० आ० उ० २ । ३ ।६ शा० भा० ) । यथा च -

"तस्मिन्नेव वाक्कायाभ्याम् अनुष्ठीयमाने तद्विषयावृत्तिः (तै० उ० ४।८ शा०

भा०) २. (क) यथानुभूतं तथैव वाचा प्रकाशनम् । यथा- एतादृशस्य यथाश्रुतस्य

चानुभवस्य परबुद्धिसंक्रान्तये तथैवोच्चार्यमाणा वाक्सत्यमुच्यते (गी० १०।४ शा०

भा० ) । यथा च - "सत्यं प्रमाणेनाबुद्धस्यार्थस्य तथैव भाषणम् (तत्रैव म० सू०) ।

२. (ख) व्यावहारिकयथार्थता । यथा च "इह पुनर्व्यवहारविषयमापेक्षिकं सत्यं

मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यमुच्यते" (तै० उ० ब्र० व० २ शा० भा० ) ।

१ . प्रमितिविषयः । यथा घटपटादिसर्वं जगत् सत्यम् । यथा वा वेदान्तिमते भूतपञ्चकम् ।

अत्रार्थे व्युत्पत्तिः सन्ति पृथिव्यप्तेजांसि च त्यौ वाय्वाकाशौ च इति । तथा च श्रुतिः

सच्च त्यच्च भूतपञ्चकं तं च सत्यमित्याचक्षते (बृ० उ० २/३/१-३सारः)

(तैति० उ० २।६।१) इति । २. यथार्थकथनम् । यथा सत्यं ब्रूयात्रियं ब्रूयान्न

ब्रूयात्सत्यमप्रियम् (मनु० ४।१३८ ) । इत्यादौ सत्यशब्दस्यार्थः । तदुक्तं ब्रह्मपुराणे

यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययः । इति ।

३. नान्दीमुखा श्राद्धीयो देवताविशेषः । अत्रोक्तम्- इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे

वसुः (श्राद्धत०) इति । ४. कृतयुगम् । अत्रेदमधिकं ज्ञेयं सन्धिसन्ध्यंशाभ्यां सहितं

सत्ययुगमानं तु दैवमानेन ४८०० वर्षाः मनुष्यमानेन १७२८००० वर्षाः इति ।

५. यथार्थज्ञानम् । ६. त्रिकालाबाध्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्म (तै० उ० २।१ ) ।

इत्यादौ परमात्मा सत्यः इति वेदान्तिन आहुः । ६. तपोलोकादूर्ध्वस्थो लोकविशेषः

इति पौराणिका आहुः। अत्रोच्यते षड्गुणेन तपोलोकात्सत्यलोको विराजते ।
 
-