2023-03-12 05:01:58 by ambuda-bot
This page has not been fully proofread.
४३८
शाङ्करवेदान्तकोशः
रजतत्वम् । लौकिकपरमार्थरजते चाज्ञातसदपरं रजतत्वम् । तदुभयानुगतं चारोपिता-
नारोपितसाधारणं रजतत्वं रजतशब्दावलम्बनम् । एवमाकाशादावारोपितैका सत्यता ।
चिदात्मनि चानारोपिताऽपरा । तदुभयसाधारणी चान्या व्यावहारिकी सत्ता ।
सत्यशब्दावलम्बनमिति भावः (अ० सि० सत्तात्रैविध्योपपत्तौ ) । २. सत्ता एवं ब्रह्म ।
यथा - ब्रह्मणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिषु अनुवर्तमानो दृश्यते
(ब्र० सू० २।१।६ शा० भा०) । १. (सामान्यम्) द्रव्यगुणकर्मसमवेता (सर्व० २२०
औलू०) इयं च वैशेषिकमते परसत्ता परसामान्यं वा इत्युच्यते द्रव्यगुणकर्मवृत्तिश्चेति
बोध्यम् (भा० प०) । तत्र प्रमाणं भावोऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव (वै० १ ।२।४)।
इति । इयं सत्ता द्रव्यं सत् गुणः सन् इत्याद्यानुगतप्रतीत्यैव सिद्ध्यति । अत्र सूत्रम्
सदिति द्रव्यगुणकर्मसु या सत्ता (वै० १ ।२।७) इति । तथा चानुमानं सत्ता न
द्रव्याद्यात्मिका विलक्षणबुद्धिवेद्यत्वात् (वै० उ० ७।२।२७) (वै० वि० ७।२।२७)
(वै० १।२।८-१७) । इति । २. विद्यमानत्वम् । तच्च कालसम्बन्धः । यथा घटो
भवति इत्यादौ भूधात्वर्थः । यथा वा भूतले घटसत्तादशायामित्यादौ सत्ताशब्दस्यार्थः ।
मायावादिमते सत्ता त्रिविधा पारमार्थिकी व्यावहारिकी प्रातीतिकी (प्रातिभासिकी)
चेति । (वेदा० सा०) तत्र पारमार्थिकी ब्रह्मणः सत्ता । त्रिकालाबाध्यत्वात् । व्यावहारिकी
च घटादीनां सत्ता । व्यवहारकाले अबाध्यत्वात् । सा तु तत्त्वज्ञाननाश्या । प्राति-
भासिकी तु शुक्तौ रजतादेः अधिष्ठानज्ञानबाध्यत्वात् । प्रातिभासकालमात्रसत्त्वाच्च
इति । सा चाधिष्ठानसाक्षात्कारनाश्यो । ब्रह्मसत्तयैव सर्वेषां सत्ताव्यवहारः ।
सदुत्पन्नत्वात् (वेदा० प० ) । इति । ३. आत्मधारणानुकूलव्यापारः सत्ता इति
शाब्दिका वदन्ति । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना विभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः (वाक्य प० ) । इति । ४. अर्थक्रिया-
कारित्वम् । यथा यत्सत् तत्क्षणिकमित्याविति बौद्धा आहुः । ५. प्रामाणिकत्वात् इत्यन्य
आहुः (न्या० को०) ।
--
सत्ताद्वैतम् - आचार्यमण्डनमिश्रमते भावपदार्थ एक एव । अयमेव भावपदार्थो
ब्रह्म । सन् इति पदस्य प्रतीतिविषयीभूतं यत्तद् ब्रह्मैव नेह नानास्ति किञ्चन,
एकमेवाद्वितीयमित्यादिश्रुत्या यस्य द्वितीयाभाव उपलक्ष्यते तत्सर्वं भावरूपस्य
नाभावरूपस्य । अभावाः सहस्रशः सन्तु । अभावानां साहस्रेणापि न काचिद्धानिर-
स्मिन्मते । इदं सत्ताद्वैतं भावाद्वैतमप्युच्यते । यथा श्रीमधुसूदनसरस्वतीभिः स्वीयाद्वैत-
सिद्धौ परिच्छिन्नत्वहेतुविचारेऽयं भावाद्वैतपक्षः साधु स्पष्टीकृतः- अत एव घटादिकं