This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
प्रावृष्यमृतं चैव देवानां मृत्युश्च मर्त्यानां सद् यस्य यत् सम्बन्धितया विद्यमानम्"

(तत्रैव ९/१९ शा० भा० ) । यथा च - "सदसच्चाहमेव यस्य कारणस्य सम्बन्धितया

यत् कार्यं नामरूपाभ्यां व्यज्यते तदत्र सच्छब्देनोपादीयते । कारणतासम्बन्धेन

नामरूपाभ्यामनभिव्यक्तं कारणात्मना स्थितमसदित्युच्यते" (तत्रैव भाष्यो०) । ३.

अमृतम् । यथा - "अमृतं सच्छास्त्रीयकर्मविज्ञाने अमरणहेतुत्वाद् अमृतम्" (बृ० उ०

१।३।२८ शा० भा० ) ।
 

 
सत्कार्यम्, सत्कार्य
सदेव कार्यरूपेण परिणमते । यथा - "दुग्धे सदेव घृतं मन्थनादि-

द्वारा घृतरूपेण परिणमते । अत एव जलाद् घृतं न जायते । यतो हि - जले न घृतमस्ति ।

एवमेव तिलात् तैलमित्यादि । इदमेव सत्कार्यं सांख्ययोगदर्शनाभिमतम् ।"
 
४३७
 
-
 

 
सत्कार्यवादः, सत्कार्यवाद
सत्कार्यसिद्धान्तः । कार्यस्य सत्त्वनिर्णायकः कथाविशेषः ।

अयं सांख्ययोगदर्शनाभिमतः ।
 

 
सत्ख्यातिः - , सत्ख्याति
चतुर्दशख्यातिष्वन्यतमा । इयं श्रीरामानुजीयवैष्णवैकदेशिनाम् ।

श्रीमद्भागवतस्य स्वीयटीकायां श्री बंशीधरस्वामिभिरेषा सूचिता । सदेव सौम्येदमग्र

आसीदिति श्रुत्या सर्वं सत्स्वरूपम् । तेन ख्यातिरर्थात् विभ्रमोऽपि सतः एव । रज्जौ

सर्पभ्रमः शुक्तौ रजतभ्रमः सख्यातिरेव । योगानामात्मसंरोधः इत्यादि श्रीमद्-

भागवतीयश्लोकस्य (११।१६।२७) टीकायां तेनोक्तम्- सर्वस्य सत्यत्वाङ्गीकारात्

सर्वत्र सत्ख्यातिरेव ।
 
-
 
.....
 

 
सत्ता - , सत्ता
१. सतो भाव । सा च त्रिविधा । पारमार्थिकी सत्ता, व्यावहारिकी

सत्ता, प्रातिभासिकी सत्ता । प्रथमा ब्राह्मण, द्वितीया जगतः, तृतीया स्वप्नस्य । तत्र

यस्य त्रिकालाबाध्यत्वं तस्य पारमार्थिकसत्ता । यथा परब्रह्मणः । भूते भविष्यति वर्तमाने

च परब्रह्मणो बाधो न भवति । यत्र प्रतीतिकालेऽसतोऽपि वस्तुनः सत्यवद् भासनं

तथोत्तरकाले च वाधो भवति तत्र प्रातिभासिकसत्ता । यथा शुक्तौ रजतं रज्जौ

च सर्पः। यत्र च ब्रह्मण्यध्यस्तस्य जगतः सत्यत्वव्यवहारस्तत्र व्यावहारिकसत्ता ।

यथा जगतः सत्ता व्यावहारिकी । जाते च ब्रह्मसाक्षात्कारे दृश्यमानस्य जगतो बाधो

जायते । यथा - अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोक-

वदिति परिहारोऽभिहितः । न त्वयं परमार्थतोऽस्ति (ब्र० सू० २।१।१४ शा० भा०) ।

यथा च - सर्वव्यवहाराणामेव प्रागू ब्रह्मात्मताविज्ञानात् सत्यत्वोपपत्तेः स्वप्न-

व्यवहारस्येव प्राक् प्रबोधात् (तत्रैव ) । यथा - प्रातिभासिकरजते ज्ञातैकसदेकं
 
-
 
-