This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
रूपास्तथा पृथिव्यप्तेजोवाय्वाकाशविज्ञानरूपाश्च वर्णिताः । विशदज्ञानार्थमत्रत्या

भामती द्रष्टव्या ।
 
-
 

 
षोडशकलम् - , षोडशकल
प्राची प्रतीच्यादिषोडशकलावद् ब्रह्म । तदेव चतुष्पाद्

अष्टाशफमपि । यथा - ब्रह्म चतुष्पादष्टाशफं षोडशकलम् । तद्यथा प्राची

प्रतीची दक्षिणोदीची चतस्रः कलाः, ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्धं शफः

तथा पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यपराश्चतस्रः कलाः, द्वितीयः पादोऽनन्तवान्नाम ।

तथाग्निःसूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम तृतीयपादः । प्राणश्चक्षुः-

श्रोत्रं वागिति चतस्रः कलाः स चतुर्थ आयतनवान्नाम ब्रह्मणः पादः। तदेवं षोडश-

कलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् (ब्र०सू०१ /१/५
भाम० ) । यथा च - क्वचिच्च

षोडशकलं पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानं पशोः पादेषु पुरतः खुरौ पृष्टतश्च

द्वौ पार्ष्णिस्थानीयावयवौ दृश्येते । तद्वत् परमात्मन्यपि चतुष्पात्त्वं षोडशकलात्वेन च

पशुरूपकल्पनयोपासनम् । तत्रैव (वे० क० त० ) । यथा च - भिन्ना प्रतिविद्यं ब्रह्मण

आकाश षोडशकलः = पुरुषः परमात्मा । यथा शाङ्करभाष्ये स ईक्षत लोकान्नु सृजा

इति । स इमाँल्लोकानसृजत (ऐत० ११ १) इति । ईक्षापूर्विकामेव सृष्टिमाचष्टे ।

कचिच्च षोडशकलं पुरुषं प्रस्तुत्याह- स ईक्षाञ्चक्रे स प्राणमसृजत (प्र० उ० ६ । ३)

इति । (ब्र० सू० 919/५ शा० भा०) । अत्र भामती - ब्रह्मचतुष्पादष्टाशफं

षोडशकलम् । तद् यथा - प्राची प्रतीची दक्षिणोदीचीति चतस्रः कलाः ब्रह्मणः

प्रकाशवान्नाम प्रथमः पादः । तदर्द्धं शफः । तथा- पृथिव्यन्तरिक्षं द्यौः समुद्र

इत्यपराश्चतस्रः कलाः द्वितीयः पादोऽनन्तवान्नाम । तथाग्निः सूर्यश्चन्द्रमा विद्युदिति

चतस्रः कलाः । स ज्योतिष्मान् नाम तृतीयः पादः । प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः

कलाः । स चतुर्थ आयतवान् नाम ब्रह्मणः पादः । तदेवं षोडशकलं षोडशावयवं

ब्रह्मोपास्यमिति सिद्धम् । अत्र वेदान्तकल्पतरुः - प्रश्नोपनिषदि हि- इहैवान्तः शरीरे

सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति प्रस्तुत्य स ईक्षाञ्चक्रे कस्मिन्वह-

मुक्कान्ते उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि इति स प्राणमसृजत्

प्राणा च श्रद्धां खं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः

कर्म लोका लोकेषु नाम चेति पठ्यते । छान्दोग्ये नु दिगाद्यवयवः षोडशकल उपास्यो

न च..... कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मन्त्रा

मनो वीर्यं शरीरकम् । यथा च बृहदारण्यकोपनिषदि - स एष संवत्सरः प्रजापतिः

षोडशकलस्तस्य रात्रय एव पञ्चदश कलाः स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते
 
-