2023-03-12 05:01:57 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
वायुविशेषगुणत्वाभावात् (मु० १ आकाशनि० पृ० ८८) । इति । सांख्या वेदान्तिनश्च
सात्विकांशं सूक्ष्मांशं श्रोत्रमित्याहुः । तन्मते शब्दस्य पञ्चभूतगुणतया शब्दाधारवायुना
झटिति कर्णदेशे यथावेगं धावमानेन कर्णं प्राप्नुवता तेन शब्दोपलम्भः इति । तन्मते
श्रवणेन्द्रियस्य प्राप्यकारित्वमित्युक्तिरप्येतत्परा इति बोध्यम् (वाच०) । काव्यज्ञास्तु
श्रोत्रेन्द्रियाधारो गोलकं कर्णः श्रोत्रमित्याहुः ।
-
-
श्वभ्रः - भयशून्यम् । यथा - अथ यदूर्ध्वमपराह्णाप्रागस्तमयान्स उपद्रव-
स्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्ष॰श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो
ह्येतस्य साम्नः (छा० उ० २।९।७) । अत्र यथा - अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात्
स उपद्रवस्तदस्यारण्याः पशवोऽन्वायत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं
श्वभ्रं भयशून्यमित्युपद्रवन्त्युपगच्छन्ति दृष्टोपद्रावणादुपद्रवभाजिनो ह्येतस्य साम्नः
(तत्रैव शा० भा० ) ।
श्लोकः- मन्त्रः । यथा - तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः ।
तत् तस्मिन्नेवार्थे एष श्लोको मन्त्रो भवति ( बृ० आ० उप० ४/४/६, ७
शा० भा० ) । लोके अनुष्टुबादिछन्दोबद्धं पद्यं श्लोकः ।
.....
षडायतनम् - बौद्धमते यद्यपि चेतनः कश्चन नाभिमन्यते । तथापि अविद्यादीनां
परस्परकरणत्वात् संसारस्थितिर्जायते । यथा - यद्यपि भोक्ता प्रशासिता वा
कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते । तथाप्यविद्यादीनामितरेतरकरणत्वादुप-
पद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चिद् परमपेक्षितव्यमस्ति । ते
चाविद्यादयोऽविद्या संस्कारो विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं
भवो जातिर्निर्जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्तेत्येवं जातीयकाः सौगते समये
क्वचित् संक्षिप्ता निर्दिष्टाः क्वचित् प्रपञ्चिताः (ब्र० सू० २/२/१९ शा० भा०) ।
अत्र भामती - नामरूपसमिश्रितानीन्द्रियाणि षडायतनम् । अत्र वेदान्तकल्पतरु:-
षट्पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्य तत्तथा । अत्र कल्पतरुपरिमल:-
केचिदविद्यादिरूपं क्वचित् क्वचित् भेदेन वर्णयन्ति । क्षणिकार्थ दुःखशून्येषु स्थायिनित्य-
सुखवस्तुबुद्धिरविद्या । ततो रागद्वेषमोहास्ततो धर्माधर्मसंस्कारा इत्येत्सर्वं संस्कार-
वशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभो विज्ञानम्, विज्ञानसंसर्गाद् गर्भद्रव्यस्य
कललपेश्याद्याकारेणाभिव्यक्तिर्नामरूपं तदभिव्यक्तिक्रमेण निर्वृतं षडिन्द्रियायतनं शरीरं
षडायतनं तन्निर्वृतशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्पर्शः तन्निमित्ते
सुखदुःखवेदना..... । षड्धातवश्चात्रैव भामत्याम्- पृथिव्यप्तेजोवाय्वाकाशर्तु-
1-