This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
आनुपूर्वीसमानवर्णनिःश्वासरूपतया श्रुतेर्नित्यता । २. प्रत्यक्षम् । अपि संराधने

........ब्र० सू० ३/२/२४ इत्यत्र शा० भा० प्रत्यक्षानुमानाभ्यां श्रुतिस्मृति

भ्यामित्यर्थः सुतेः प्रत्यक्षम् इत्यर्थः । यथा- अपि च संराधने प्रत्यक्षानुमानाभ्याम्

(ब्र० सू० ३।२।२४) । इत्यत्र शाङ्करभाष्ये कथं पुनरवगम्यते संराधनकाले पश्यन्तीति ।

प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामिथ्यर्थः ।
 

यथा च - "घोषस्य श्रवणं श्रुति:" (ब्र० सू० १।१।२४ भाम० ) । यथा

च- १. श्रोत्रशब्दवदस्यार्थोऽनुसन्धेयः । २. श्रोत्रेन्द्रियजन्यं ज्ञानम् । ३. मीमांसकास्तु

निरपेक्षो रवः श्रुतिः । ४. गणकास्तु अङ्कशास्त्रोक्तस्त्रिभुजक्षेत्रादिः भुजकोट्योः

संयुज्यमानो रेखाविशेष इत्याहु: (लीला०) । ६. मौहूर्तिकास्तु श्रवणनक्षत्रमित्याहुः ।

७. संगीतशास्त्रज्ञा गायकास्तु षड्गरागाद्यारम्भकावयवशब्दविशेषः श्रुतिः इत्याहुः ।

तत्रोक्तम- प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः सम्परिज्ञेया नियमो

दृश्यते यया चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वेद्वे निषादगान्धारौ त्रिस्त्रिस्त्वर्षमधैव-

तौ ॥ इति ।
 
-
 
-
 

 
श्रेयः - , श्रेयस्
लौकिकानन्दः प्रेयो भवति, परमानन्दः श्रेयो भवति । यथा - सत्वं

प्रियान् प्रियरूपा vश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैता ¨सृङ्कां वित्तमयीम-

वाप्तो यस्यां मज्जन्ति बहवो मनुष्याः (क० उ० १ । २ । ३) । श्रेयश्च प्रेयश्च

मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो-

मन्दो योगक्षेमाद् वृणीते (तत्रैव ४) ।
 
-
 

 
श्रोत्रम् - , श्रोत्र
(इन्द्रियम्) । (क) शब्दोपलब्धिसाधनमिन्द्रियम् (त० भा० पृ० २६)

(न्या० भ० पृ० १४) । तच्च विशिष्य दृष्टोपगृहीतकर्णशष्कुल्यवच्छिन्नो नभो देशः

(वै० उ० ८।२।६) (त० भा० प्रमे० पृ० २६) (त० सं०) । अत्रावच्छिन्नत्वं च

संयोगविशेषः (प० मा०) । अत्रेदं बोध्यम् । श्रोत्रं शब्दवत् शब्दग्राहकत्वात् । यदिन्द्रियं

रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत् । यथा गन्धग्राहकं घ्राणं

गन्धवदिति व्याप्तिरत्र द्रष्टव्या (प्र० प्र०) (त० भा० प्रमे० पृ० २६) । अथवा

श्रोत्रस्य शब्दवत्त्वं च बहिरिन्द्रियाणां ग्राह्यजातीयविशेषगुणवत्त्वमिति

नियमात्सिद्ध्यति (वै० उ० ८ । २ । ६ ) । शब्दश्च नभो वृत्तिरेव न च वायोरेव

कारणगुणपूर्वकशब्दवत्त्वमङ्गीकार्यमिति वाच्यम् । शब्दस्या यावद्रव्यभावित्त्वेन