2023-03-12 05:01:56 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
४३१
-
सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् । एवं
च सति अथातो ब्रह्मजिज्ञासा इति तद्विषयः पृथग् शास्त्रारम्भ उपपद्यते (ब्र० सू०
१ ।१ । ४ शा० भा०) । यथा च - श्रवणं शब्दजं ज्ञानमुपपत्त्यानुचिन्तनम् । मतिर्निरन्तरा
चिन्ता निदिध्यासनमुच्यते । ब्रह्मज्ञानमुद्दिश्योक्तश्रवणस्योक्तविधिना विधानादपूर्वविधिः
( अ० सि० ज्ञानस्य पुरुषतन्त्रताभङ्गपरि० गौ० ब्र० ) । यथा च - "श्रवणं हि
ब्रह्मात्मनि तत्त्वमसि वाक्यस्य तच्छब्दश्रुत्यादिपर्यालोचनया तात्पर्यावगम:" (ब्र०
सू० १/१/४ वे० क० त० ) । यथा च- तात्पर्यावधारणं श्रवणं तदनु-
ग्राहकानुमानादिरूपयुक्त्यनुचिन्तनं मननमिति पक्षे विधान्तरेणापि तयोर्निदिध्यासनस्य
च विधानासम्भवमाह - श्रवणमिति" (क० त० परि०) । यथा च - "इत्थं
वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् । युक्त्या सम्भावितत्वानुसंधानं मननं तु तत् (प०
द० १-५३) । यथा च - "१. श्रोत्रेन्द्रियजन्यं शब्दविषयकं ज्ञानम् । यथा श्रूयते
सुपुरुषचरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ ।" २. श्रुतिवाक्योत्थं ज्ञानम् ।
यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ० उ० २।४।५)।
इत्यादौ ( म०प्र० १ ) । यथा वा श्रोतब्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः इत्यादौ ।
अश्र श्रवणं च श्रुतिपदपक्षिका संसर्गज्ञानानुमितिः (प० च० प० २०) । ३.
अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम् (सर्व० सं० पृ० १६६ नकु०) (४. शब्दग्राहकमिन्द्रियम्
श्रोत्रम् । ५. मौहूर्तिकास्तु अश्विन्यादिषु द्वाविंशो (२२) नक्षत्रविशेष इत्याहुः । ६.
मुण्डरीकावृक्षः (वाच०) ।
--
-
श्रुतार्थापत्तिः - वाक्यस्य स्वार्थानुपपत्त्या अर्थान्तरकल्पनम् । यथा - श्रुतार्थापत्तिर्यथा
यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनम् । यथा- 'तरति शोक-
मात्मवित्' इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथाऽनुपपत्त्या
बन्धस्य मिथ्यात्वं कल्प्यते (वे० परि० ५ प० ) ।
.
श्रुतिः - १. वेदः । श्रुतिस्तु वेदो विज्ञेय इति मनूक्तिः । श्रूयते इति श्रुतिः ।
अकर्तृका सम्प्रदायद्वारा श्रवणपरम्परया समागता ज्ञानराशिः । अस्य महतो भूतस्य
निःश्वसितमेतद् यद् ऋग्वेदः (बृ० उ० २।४।१०) । आगम इत्यप्युच्यते । निरपेक्षरवः
श्रुतिरिति पूर्वमीमांसकाः । घोषस्य श्रवणं श्रुतिः (ब्र० सू० १।१।२४ भाम०) ।
श्रवणेन्द्रियमिति
षड्जादिरागाद्यारम्भकशब्दविशेष इति संगीतशास्त्रविदः ।
लौकिकाः। पूर्वमीमांसकमते अनाद्यनिधना सृष्टिस्तेनाद्यनिधना नित्या श्रुतिः ।
उत्तरमीमांसायामद्वैतवेदान्ते यथा- पूर्वमकल्पयदिति ऋङमन्त्रेण प्रतिसर्गं ब्रह्मण