This page has not been fully proofread.


 
शाङ्करवेदान्तकोशः
 
-
 
.….....
 
-
 
श्रद्धा - १ . सादरदानम्, आस्तिक्यबुद्धिः, भक्तिः हृदयस्य वृत्तिः । यथा - श्रद्धा
नाम दित्सुत्वम् आस्तिक्यबुद्धिर्भक्तिसहिता । हृदयस्य हि वृत्तिः श्रद्धा (बृ०
। ..
आ० उ० ३।९।२१) । २. आदरयुक् । यथा - श्रद् अव्ययः आदरार्थः, धा
धातुः धारणार्थः । 'श्रद्धावित्तो भूत्त्वा' इति माध्यन्दिनश्रुतिः । यस्य स्यादद्धान
विचिकित्साऽस्ति (छा० ३।१४) । इति काण्वश्रुतिः । चकारात् श्रद्धाँवाल्लभते
ज्ञानम् (गी० ४।३९) इति स्मृत्यादिकं सूचितं तेन संशयस्य श्रुत्यादिभिर्निन्दि-
तत्वान्न प्रामाणिकेऽश्रद्धा कार्येत्यर्थः (सं० शा० १ । २६७ सु० टी०) । ३. आपः
(लक्ष्यार्थः) तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति (छा० उ० ५ ।४।२) । श्रद्धाशब्दस्य
अप्सु लाक्षणिकस्य.... (ब्र० सू० ४/२/४ क० त० परि०) । यथा च - "वैदिक-
प्रयोगदर्शनात् श्रद्धा वा आपः इति ।......आपो देहवीजभूता इत्यतः श्रद्धाशब्दाः स्युः ।
......श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते (ब्र० सू० ३।१।५ ) । यथा
च - "(श्रद्धा जुह्वति) केवलाभिरद्भिः सम्परिष्वक्तो रंहतीति (ब्र० सू० ३।१।१
शा० भा०) । न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।कर्माणि
चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्चापः
श्रद्धाशब्दोदिताः सह कर्मभिर्धुलोकाख्येऽग्नौ हूयन्त इति तस्मादपि अपां बाहुल्यसिद्धिः ।
बाहुल्याच्चाबूशब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् (ब्र०
सू० ३।१।२ शा० भा०) । श्रद्धा सोम इत्यर्थः (ब्र० सू० ३/१/१२ क० त० ) ।
श्रवणम् - १. आत्मां वा अरे द्रष्टव्यः श्रोतव्यः इत्यादि श्रुत्यनुसारं वेदान्त-
वाक्यानां श्रवणानन्तरमद्वैतब्रह्मणि उपसंहारादिलिङ्गैः शक्तितात्पर्यनिर्णयः । यथा -
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः ।
तत्र तावन्मुनिश्रेष्ठ श्रवणं नाम केवलम्उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः
(विवरणप्रमेयसं० १।१।१-२) । यथा च - "श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि
तात्पर्यावधारणानुकूला मानसी क्रिया । मननं नाम शब्दावधारितेऽर्थे मानान्तर-
विरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मज्ञानजनको मानसो व्यापारः (वे०
प० ७ प०) । यथा च - श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि
तात्पर्यावधारणम् (वे० सा० ) । यथा च - अत्र श्रवणं विधिः न तु विधिशेषः ।
"यत्पुनरुक्तं श्रवणात् पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणो न
स्वरूपपर्यवसायित्वमिति ।न, अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र
विनियुज्येत भवेत्तदा विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि
श्रवणवदवगत्यर्थत्वात् ।" तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः
 
-
 
-
 
४३०