2023-03-26 07:29:13 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
४२९
नामरूपमेव शून्यता । शून्यतैव नामरूपम् । सर्वमद्वयम् (शतसाहस्रिकायाम्) । यथा
च- आत्मेत्यपि प्रज्ञपितमनात्मेत्यपि देशितम् । बुद्धेनात्मा न चानात्मा कश्चिदित्यपि
देशितम् (मध्यमकका० १८/६) ।२. समाध्यवस्थायां शून्यानुभूतिः । यथा -
उर्ध्वशून्यमधः- शून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं यदात्मेति समाधिस्थस्य लक्षणम्
(महाभारते- भीष्मप० उ० म० १ ।३९) । प्रज्ञाशून्यं मनः शून्यं बुद्धिशून्यं निरामयम् ।
सर्वशून्यं निराभासं समाधिस्थस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स मुच्येत
सर्वबन्धनात् (तत्रैव १।१४) । एवमेव गायत्रीतन्त्रे कामधेनुतन्त्रे च ।
यथा च – "अत्यन्ताभाववत् । यथा ज्ञानशून्यः पुरुषः इत्यादौ । २. निर्जन-
स्थानम् । ३. आकाशः (शब्द च०) । ४. बिन्दुमात्रम् (हेम० च०) । ५. असम्पूर्णम् ।
६. ऊनम् । ७. तुच्छं च (त्रि० अमरः) ।
-
-
शेवधिः
शेवधिर्निधिः । यथा - "कर्मफललक्षणो निधिरिव प्रार्थ्यत इति ।
परमात्माख्यः शेवधिः (क० उ० २।१० शा० भा० ) । यथा च - प्रज्ञोऽप्यधिकतर-
प्रज्ञोस्तीति सन्तोषात् स्तौति । कामनाविषयत्वगुणयोगात् शेवधिशब्दः कर्मफलं विद्यते ।
शेषवत्
(अनुमानम्) १ . यत्र कार्येण कारणमनुमीयते तत् । यथा- पूर्वोदक-
विपरीतमुदकम् नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिः इति
(वात्स्या० १।१ ।५) । अत्र वृत्तिकार इत्थं व्यवृत। शेषः कार्यम् तल्लिङ्गकं शेषवत् ।
यथा नदीवृद्ध्या वृष्ट्यनुमानम् । अथवा शेषो व्यतिरेकः । तद्वत्केवलव्यतिरेकीत्यर्थः ।
यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यादि (गौ० वृ० १/१/५) । २. शेषवन्नाम
परिशेषः । स च प्रसक्तप्रतिषेधेन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः ।
शोकः
१ . परिदेवना । २. चिन्ता । ३. द्वैतम् । यथा - "तरति शोकमात्मवित्
(छा० उ० १ । १ । ३) । तथा विद्वान्नामरूपाद्विमुक्तः (मु० उ० ३।२।८) । भिद्यते
हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु०
उ० २।२१८) अ० सि० परि० १ ज्ञाननिवर्त्यत्वानुपपत्तिप्रक०..... गौडब्रह्मानन्दी
व्याख्यायाम् – शोकं भीतिहेतुं द्वैतमिति यावत् ।
शौवः
शुना दृष्ट: उद्गीथः । यथा - "अतीते खण्डेऽन्नाप्राप्तिनिमित्ता
कष्टावस्थोक्तोच्छिष्टपर्युषितभक्षणलक्षणा सा मा भूदित्यन्नलाभायाथानन्तरं शौवः
श्वभिर्दृष्ट उद्गीथ उद्गानं सामातः प्रस्तूयते (छा० १ १२/१ शा० भा० ) ।
-