This page has been fully proofread once and needs a second look.

(तत्रैव म० सू०) । यथा च - "शुचि मृदम्ब्वादिनिमित्तेन बाह्येन दयादिनाभ्यन्तरेण
च शौचेन सम्पन्नः पुण्यापुण्याभ्यामलिप्तः इति वा (तत्रैव भाष्यो०) । यथा च
"शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः" (तत्रैव श्रीधरी) ।
 
शुचिसद्, शुचिसद्
सूर्यः । यथा - "शुचौ दिव्यादित्यात्मना सीदतीति" (का० उ०
व० ५।२ शा० भा० ) ।
 
शुद्धम्, शुद्ध
१. लौकिकमलादिरहितं शुद्धत्वं लौकिकम् । तथा - सङ्गत्यादिमलरहितं
तात्त्विकमलौकिकम् । यथा- "आकाशादावस्ति मलादिलेपरहितत्वलक्षणा शुद्धता
लौकिकी प्रत्यगात्मनि चासङ्गत्वादिप्रयुक्ता तात्त्विकी (सं० शा० १८२ सु० टी०) ।
 
-
 

 
शुद्धत्वम्, शुद्धत्व
कार्यकारणभावरहितत्वम् । यथा -- "शुद्धत्वमकारणत्वम्"
(गी० १ आ० टी०) ।
 
शुद्धो धर्मः, शुद्ध धर्म
सञ्चिताशेषकर्मनाशः । यथा - "अनादाविह संसारे सञ्चिताः
कर्मकोटयः । अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते । अस्य समाधेरवान्तरफलमाह -
अनादाविति । अनादौ स्पष्टम् । इहास्मिन्संसारे सञ्चिताः कर्मकोटयः कर्मणां पुण्या-
पुण्यलक्षणानां कोटय इत्युपलक्षणम् । अपरिमितानि कर्माणीत्यर्थः । अनेन समाधिना
विलयं यान्ति विनश्यन्ति (प० द० १।५९ ) ।
 
शूद्रः, शूद्र
शोकयुक्तः । यथा - "कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां
शूद्रमभिकुर्यात्, तद्विषयत्वात्, न सर्वासु विद्यासु ।.....शुचमभिदुद्राव, शुचा वाभिदुद्रुवे,
शुचा वा रैक्वमभिदुद्रावेति शूद्रः" (ब्र० सू० १।३।३४ शा० भा० ) ।
 
शून्यम्, शून्य
१ . चतुर्विधेषु बौद्धदार्शनिकेषु माध्यमिकबौद्धानां शून्यमेकं तत्त्वम् ।
तदपि शून्यस्य वास्तविकं पारमार्थिकम् अस्तित्वं नास्ति । यथा - अपरप्रत्ययं शान्तं
प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत् तत्त्वस्य लक्षणम् । यः प्रतीत्यसमुत्पादः
शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरूपा या सा प्रतिपत् सैव मध्यमा (मध्यमकका ०
२४।१८) । यथा च - केचित् सर्वास्तित्ववादिनः केचिद् विज्ञानास्तित्ववादिनः
अन्ये पुनः सर्वशून्यवादिनः (ब्र० सू० २।२।८ शा० भा०) । अत्र भामत्याम्-
वादिवैचित्र्यात् खलु केचित् सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते । केचिज्ज्ञानमात्रा-
स्तित्वम् । केचित् सर्वशून्यताम् ।.....यथोक्तं बोधिचित्तविवरणे - देशना लोकनाथानां
सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ।१। गभीरोत्तानभेदेन