This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
यथा च - "शिवशब्देन शिवयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां

सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह प्रतिपदार्थे सङ्ग्रहः

(सर्व० सं० पृ० १८० शै०) । शिवत्वं च पाशजालापोहने नित्यनिरतिशयदृक्रियारूप-

चैतन्यात्मकत्वम् (सर्व० सं० पृ० १८२ शै०) ।
 
४२७
 

 
शीक्षा - , शीक्षा
शिक्षैव शीक्षा इत्यप्युच्यते । यथा- शिक्षैव शीक्षा (तै० उ० अनु०

३ शा० भा० ) । शिक्षाशब्दो द्रष्टव्यः ।
 
-
 

 
शीलम्, शील
आचारः । यथा - अक्रोधः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च

ज्ञानं च शीलमेतद् विदुर्बुधाः । इति स्मृतेः शीलमाचारोऽनुशयाद् भिन्नः (ब्र० सू०

३।१।१० भाम०) । यथा च - आचारहीनं न पुनन्ति वेदाः इत्यादिस्मृतिभ्यः

(अत्रैव सूत्रे शा० भा०) । यथा च - चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि-

अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते । यो हीष्टाटिलक्षणं पुण्यं कर्म करोति

तं लौकिका आचक्षते धर्मं चरत्येव महात्मेति । आचारोऽपि धर्मविशेष एव । भेद-

व्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते (ब्र० सू० ३/१/११

शा० भा० ) ।
 
-
 
शुक्रम् –

 
शुक्रम्, शुक्र
शुक्लम्, नित्यशुद्धम्, अपापविद्धं ब्रह्म । यथा - "सपर्यगाच्छुक्रम-

कायमव्रणमस्नाविरं शुद्धमपापविद्धम्" (ईशा० ८) । इति चेतौ मन्त्रावनाधेयातिशयतां

नित्यशुद्धतां च ब्रह्मणो दर्शयतः" (ब्र० सू० 91१।४ शा० भा० ) । यथा च-

"शुक्रं दीप्तिमत्" (तत्रैव भाम० ) ।
 
-
 

 
शुङ्गम्, शुङ्ग
मूलम् । यथा – तथा को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो

न स्यात् एष ह्येवानन्दयति । अन्नेन सोम्य शुङ्गेन तेजोमूलमन्विच्छ अद्भिः सोम्य शुङ्गेन

सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः इत्यादिभिः (गी० १३।४ भाष्यो०) । यथा

च - "शुङ्गेन कार्येण (तत्रैव १३।४) । २. कार्यम् । यथा - शुङ्गेन अग्रेण कार्येणेति

यावत् (ब्र० सू० १।४।१४ भाम० ) ।
 
-
 

 
शुचिः- , शुचि
जलादिना बाह्येन शौचेन सत्यदयादिना आभ्यन्तरेण शौचेन सम्पन्नः ।

यथा- "शुचि बाह्याभ्यन्तरेण च शौचेन सम्पन्नः" । "बाह्याभ्यन्तरशौचवान्

पुण्यापुण्याभ्यामलिप्तो वा'(नी० क०) । यथा च - "शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः"