This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
शास्त्रयोनिः - , शास्त्रयोनि
शास्त्रवेदादियोनिः प्रमाणं तथा कारणमुत्पत्तिस्थानं यस्य तद्

ब्रह्म । अथवा शास्त्राणां वेदादीनां योनिः कारणं तद् ब्रह्म । यथा - "महत ऋग्वेदादेः

शास्त्रस्यानेकविद्यास्थानोपवृंहितस्य प्रदीपवत् सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः

कारणम् ।......शास्त्रादेव प्रमाणाज्जगतो जन्मादिकारणं ब्रह्मादि गम्यत इत्यभिप्रायः"

(ब्र० सू० १/१/३ शा० भा० ) । यथा च - "न केवलं जगद्योनित्वादस्य भगवतः

सर्वज्ञता, शास्त्रयोनित्वादपि बोध्यव्या । शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थ्यते

महत ऋग्वेदादेः शास्त्रस्येति" (तत्रैव भाम०) । शिक्षा, शीक्षा च - "वर्णोच्चारणविधि-

बोधकं शास्त्रम् ।" यथा - "शिक्षा शिक्ष्यतेऽनयेति वर्णाधुच्चारणलक्षणम् । शिक्ष्यन्त

इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा" (तै० उ० अनु० ३ शा० भा०) । उक्तं

च- मुखं व्याकरणं तस्य ज्यौतिषं नेत्रमुच्यते । निरुक्तं श्रोत्रमुद्दिष्टं छन्दसां विचितिः

पदे । शिक्षा प्राणं तु वेदस्य हस्तो कल्पान् प्रचक्षते ।
 
४२६
 

 
शिवः - , शिव
१. सर्वसंसारधर्मवर्जितः परमानन्दरूपोऽद्वैत ओंकारः । यथा -

अमात्रोऽनन्तमात्रश्च द्वैतस्योपरमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो

जनः (मा० उ० का० १ ।२९)।२-शंकरः ३. सर्वमङ्गलोपेतः । यथा - शिवः शक्त्यायुक्तः

(सौन्दर्यलहरी) । अत्र लक्ष्मीधरीव्याख्यायाम्- वश् कान्तौ धातोरथवा शीङ् स्वप्ने

वा क्षेपणे धातोर्निष्पन्नः कान्त्यर्थः स्वप्नाविद्यायां लोकवमनार्थः । २. वेदः । यथा

च-अट्टशूला जनपदाः शिवशूला द्विजातयः । कामिन्यः केशशूलिन्यो भविष्यन्ति

कलौ युगे । अत्र व्याख्यायाम् - अट्टमन्नं शिवो वेदः केशो भग इत्युदीर्यते । शूलं

विक्रय उच्यत इत्यादि ।
 
-
 
-
 

 
शिवा - , शिवा
१. पार्वती । २. शृङ्गाली च पौराणिककथानुसारमेकदा पावर्ती

शृङ्गालीरूपमधारयत् । ३. अद्वयता यथा- भावैरसदिरेवायद्वयेन च कल्पितः भावः

अप्यद्वयेनैव तस्मादद्वयता शिवा (मा० उ० का० २।३२ ) ।
 

 
शिवम् - , शिव
१. आत्मा ब्रह्म च । यथा - नान्तप्रज्ञं न बहिष्प्रज्ञं नोभयत अज्ञं न

प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्म-

प्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा विज्ञेयः (मा० उ०

७ म०) । २. कल्याणम् । यथा शिवं सन्तनोतु शिव इत्यादि । परमार्थस्वभावमिति

बौद्धाः । यथा - अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्ध्यः । भावानां ते न पश्यन्ति

द्रष्टव्यो-पशमं शिवम् (म० का० ५।८) । शिवम् = परमार्थस्वभावम् (तत्रैव चन्द्रकीर्त्तिः) ।