This page has been fully proofread once and needs a second look.

शाङ्कुरलावृकः, शालावृक
आरण्यश्वा । यथा - रौति यथार्थं शब्दयति इति रुद्
वेदान्तकोशः
 
शालावृकः – आरण्यश्वा । यथा - रौति यथार्थं शब्दयति इति रुद् वेदान्त
वाक्यं

तत्र मुखं येषां ते रुन्मुखाः । तेभ्योऽन्ये अनुरुन्मुखाः शालावृकेभ्यः आरण्यश्वभ्यः

( ब्र० सू० १/१/३१ वे० क० ) ।
 
४२५
 

 
शाश्वतः, शाश्वत
नित्यो धर्मः । यथा - "शश्वद्भवः शाश्वतो नित्यो धर्मस्तस्य गोप्ता

शाश्वतधर्मगोप्ता" (गी० ११/१८ शा० भा०) । यथा च - "अविनाशित्वात्तवैव

ज्ञातव्यतातिरिक्तस्य नाशित्वेन हेयत्वादित्यर्थः । ज्ञानकर्मात्मनो धर्मस्य नित्यत्वं वेद-

प्रमाणकत्वं धर्मसंस्थापनार्थाय सम्भवामि इत्युक्तत्वाद् गोप्ता रक्षिता" (तत्रैव आ०

गि०) । यथा च - शाश्वतः इत्यपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः

शाश्वतः । नापक्षीयते स्वरूपेण निरवयवत्वान्निर्गुणत्वाच्च । नापि गुणक्षयेणापक्षयः"

(गी० २।२० शा० भा० ) ।
 
-
 

 
शाश्वतम्, शाश्वत
नित्यम्, सर्वदैकरूपम् । यथा - "शाश्वतं नित्यम्" (गी० १०/१२

शा० भा० ) । यथा च- "शाश्वतं सर्वदैकरूपम्" (तत्रैव म० सू० ) ।
 
-
 
-
 

 
शास्त्रम् - , शास्त्र
१ शिष्यतेऽनुशिष्यते बोध्यतेऽपूर्वोऽनेनेति शास्त्रं वेदस्तथा

तदुपजीविस्मृतीतिहासपुराणादि । यथा - "शास्त्रं वेदस्तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं

विधिप्रतिषेधाख्यमुत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन्न स सिद्धिं

पुरुषार्थयोग्यतामाप्नोति" (गी० १६/२३ शा० भा०) । यथा च -आसुर्याः सम्पदो

वर्जने श्रेयसश्च करणे किं कारणं तदाह - सर्वस्येति । तस्य कारणत्वं साधयति-

शास्त्रेति । ....शिष्यतेऽनुशिष्यते बोध्यतेऽनेनापूर्वोऽर्थ इति शास्त्रं तच्च विधिनिषेधात्मकम्

(तत्रैव आ० गि०) । यथा च - "शिष्यतेऽनुशिष्यतेऽपूर्वोऽर्थो बोध्यतेऽनेनेति शास्त्रं

वेदस्तदुपजीविस्मृतिपुराणादि च तत्सम्बन्धीविधिलिङ्गादिशब्दः कुर्यान्न कुर्यादित्येवं

प्रवर्तनानिवर्तनात्मकः कर्त्तव्याकर्त्तव्यज्ञानहेतुर्विधिनिषेधाख्यस्तं शास्त्रविधिं विधि-

निषेधातिरिक्तमपि" (तत्रैव म० सू०) । यथा च - "शिष्यतेऽनुशिष्यते बोध्यतेऽने-

नाज्ञातोऽर्थ इति शास्त्रं वेदस्तदुपजीविस्मृतीतिहासपुराणादि च" (तत्रैव भाष्यो०)।

२. ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः (बृ० उ० १/४/११ शा० भा० ) ।

यथा च - अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति । प्रवृत्तिनिवृत्तिपराणां च

सन्दर्भाणां शास्त्रत्वम् । `यथाहुः - प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां

येनोपदिश्येत् तच्छास्त्रमभिधीयते ॥ (ब्र० सू० १/१।४ भाम० ) ।
 
-
 
-