This page has not been fully proofread.

४२४
 
शाङ्कुरवेदान्तकोशः
 
-
 
यथा- शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघातानां शान्तिर्भवति वारणम् ।
(मलमासधृतवाक्यम्) । यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः
(न्या० को०) ।
 
शारीरः - जीवः । यथा – शरीरे भवः शारीरो जीवः (सं० शा० १० सु० टी०) ।
यथा च – ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणं न तु शारीरो जीवो मनोमयत्वादिगुणः ।
यत्कारणं सत्यसङ्कल्पः आकाशात्मा अवाकी अनादरः न्यायान् पृथिव्या इति
चैवंजातीयका गुणा न शारीर आञ्जस्येनोपपद्यते । शारीर इति शरीरे भव इत्यर्थः ।
ननु ईश्वरोऽपि शरीरे भवति ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् आकाशवत्
सर्वगतश्च नित्यः इति च व्यापित्वश्रवणात् (ब्र० सू० १ । २ । ३ शा० भा० ) । यथा -
सत्यसङ्कल्पादयो ब्रह्मण्युपपद्यन्ते एवं शारीरेऽप्युपपद्यन्ते । शारीरस्य ब्रह्मणोऽभेदात्
(तत्रैव भाम० ) ।
 
-
 
-
 
-
 
शारीरम् - १ . शरीरस्थितिमात्रनिमित्तं कर्म । यथा - शारीरं शरीरस्थितिमात्रप्रयोजकं
केवलं कर्म कुर्वन्नाप्नोति न प्राप्नोति किल्विषमनिष्टरूपं पापं धर्मं च.... एवं शारीरं
केवलं कर्मेत्यस्यार्थस्य परिग्रहे निरवद्यं भवति (गी० ४।२१ शा० भा० ) । यथा च -
स व्युत्त्थानकाले शारीरं शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादि (तत्रैव नी० क०) ।
यथा च - शारीरं शरीरस्थितिमात्रप्रयोजनं कौपीनाच्छादनादिग्रहणभिक्षाटनादिरूपम्
(तत्रैव म० सू०) । यथा च - शारीरं शरीरमात्रानिर्वत्यं कर्तृत्वाभिनिवेशरहितं कर्म
कुर्वन्नपि किल्विषं बन्धनं न प्राप्नोति (तत्रैव श्रीधरी) ।
 
शारीरकः - जीवात्मा । यथा - वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः
(ब्र० सू० १/१/१ शा० भा० उपो०) । अत्र भामत्याम्- शरीरमेव शरीरकं तत्र
निवासी शारीरको जीवात्मा ।
 
शारीरकम् - शारीरो जीवस्तस्य परमात्मरूपताप्रतिपादकं शास्त्रम् । तच्च
शारीरकमीमांसेत्युच्यतेऽ द्वैतवेदान्तिभिः । अत एव ब्रह्मसूत्रभाष्यं शारीरकभाष्यं
कथ्यते । यथा - शरीरमेव शारीरकं तत्र निवासी जीवात्मा, तस्य त्वंपदाभिधेय-
परमात्मरूपतामीमांसा (ब्र० सू० शा० भा० उपो०) । शरीरे भवः भवं च शारीरो
जीवस्तथा ब्रह्म तं तच्च कै गै शब्दे इति धातोः कायति शब्दयति बोधयति इति
शारीरकवेदान्तशास्त्रमित्यन्यैः ।