This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
४२३
 
जातिः । पृथिवीत्वादिना संकरात् (वै० वि०४।२।१) (मु० परि० २) । शरीरत्वं च

प्रयत्नवदात्मसंयोगासमवायिकारणवक्रियावदन्त्यावयवित्वम् (वै० उ०४।२।१ ) । अथवा

अन्त्यावयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वम् (वै० वि० ४।२।१) (प० भा०) ।

अत्रान्त्यपदप्रयोजनमुच्यते- हस्तत्वपृथिवीत्वद्रव्यत्वसत्त्वादिवारणाय अन्त्यावयविमात्रवृत्ति

इति पदं दत्तम् । घटत्वादिवारणाय चेष्टावद्वृत्तिपदं दत्तम् । घटशरीरसंयोगादिवारणाय

जाति इति पदम् । एवञ्च मनुष्यत्वचैत्रत्वादिजाति-मादाय मानुषादिशरीरे

लक्षणसमन्वयः । कल्पभेदेन नृसिंहशरीरस्य नानात्वान् नृसिंहत्वजातिमादाय तत्र

लक्षणसमन्वयः । अथवा अवच्छेदक तासम्बन्धेन भोगा-श्रयत्वम्,

भोगायतनवृत्त्यन्तावयविमात्रवृत्तिजातिमत्त्वं वा (प० भा०) । जीवशरीर-मात्रलक्षणं तु

आत्मविशेषगुणजनकमनःसंयोगावच्छेदकत्वम् (त० भा०) । अथ चेष्टेन्द्रियार्थाश्रया

उच्यते । अत्र आश्रयपदस्य प्रत्येकमन्वयाच्चेष्टाश्रयत्वादि-लक्षणत्रयम् (न्या० को०) ।
 
-
 

 
शाखारण्डत्वम् - , शाखारण्डत्व
निन्दाप्रायश्चितयोरुपालम्भः । यथा - शाखारण्डत्वेनान्यशाखा-

निष्ठस्य निन्दाप्रायश्चित्तयोरुपलम्भात् (सं० शा० ३।२९५ अ० टी०) ।
 

 
शान्तिः - , शान्ति
१. कैवल्यम् । २. मोक्षः । यथा - युक्तो ब्रह्मण्याधाय कर्माणीत्यादि-

नोक्तलक्षणः कर्मणां फलं त्यक्त्वा ईश्वरे समर्प्य शान्ति कैवल्यं नैष्ठिकीं

सत्त्वशुद्ध्यादिक्रमप्राप्तब्रह्मनिष्ठाफलभूतां प्राप्नोति (गी० ५/१२ नी० क०) । यथा

च - युक्तः परमेश्वराय कर्माणि न मम फलायेत्येवं समाहितः सन् कर्मफलं परित्यज्य

शान्ति मोक्षाख्यां नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यास-

ज्ञाननिष्ठाक्रमेण प्राप्नोति (तत्रैव भाष्यो०) । यथा च परमेश्वरैकनिष्ठः सन्

कर्मणां फलं त्यक्त्वा कर्माणि कुर्वन्नात्यन्तिकीं शान्तिं मोक्षं प्राप्नोति (तत्रैव श्रीधरी) ।

३. निर्वाणम् । यथा - स एवम्भूतः स्थितप्रज्ञो ब्रह्मविच्छान्तिं सर्वसंसारदुःखोपरमत्वलक्षणां

निर्वाणाख्यामधिगच्छति प्राप्नोति (गी० २।७१ शा० भा०) । एवम्भूतः स्थितप्रज्ञः

शान्ति सर्वसंसारदु: खोपरमलक्षणामविद्यातत्कार्यनिर्वृतिमधिगच्छति ज्ञानबलेन

प्राप्नोति (तत्रैव म० सू०) । यथा च - शान्तिः १ . उपद्रवनिवारणम् । यथा शान्ता

पृथिवी, शान्तं पापमित्यादौ । २. वेदान्तिनस्तु कामक्रोधादिजयः विषयेभ्यो मनसो

निवारणं च इत्याहुः । ३. दुर्गा देवी इति शाक्ता आहुः ।४. दैवज्ञास्तु पूजाहोमजपदानादि-

द्वारा गोचरविलग्नादिस्थग्रहदौस्थ्यदुःस्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तिः । तदुक्तम्-
-
 
-