This page has not been fully proofread.

४२२
 
शाङ्कुरवेदान्तकोशः
 
तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च
समाधिः समाधानम् । गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमुक्षुत्वं मोक्षेच्छा ।
एवं भूतः प्रमाता अधिकारी "शान्तो दान्तः" इत्यादिश्रुतेः । उक्तं च - प्रशान्तचित्ताय
जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणन्वितानुगताय सर्वदा प्रदेयमेतत् सततं
मुमुक्षवे (वे० सा०) । अन्यच्च यथा वेदान्तपरिभाषाप्रयोजनपरिच्छेदे - अत्रोपरमशब्देन
संन्यासोऽभिधीयते । तथा च संन्यासिनामेव श्रवणाधिकार इति केचित् । अपरे तु
उपरमशब्दस्य संन्यासवाचकत्वाभावाद् विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् ।
जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् ।
 
शम् – आनन्दः प्रीतिः शुभं कल्याणं सुखम् ब्रह्म शान्तिश्च । यथा - ॐ शं
नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः
(तै० उ० १ । १ ) । यथा च नमः शम्भवाय च मयोभवाय च नमः शङ्कराय
च०.... (शु० य० वे० १६।४२ ) ।
 
-
 
शरीरम् – भोगायतनम् । यथा - वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम्
(वे० प० ७ प०) । एतच्च त्रिविधम् - १. कारणशरीरम् । २. लिङ्गशरीरम् (सूक्ष्म-
शरीरम्) । ३. स्थूलशरीरं च । तत्र कारणशरीरं यथा - यः सर्वज्ञः स सर्ववित् इति
श्रुतेः ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् । आनन्दप्रचुरत्वात्कोश-
वदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलय-
स्थानमिति चोच्यते (वे० सा०) । लिङ्गशरीरं यथा- पूर्वोक्तैरपञ्चीकृतैर्लिङ्गशरीरं
परलोकयात्रानिर्वाहकं मोक्षपर्यन्तं स्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियकर्मेन्द्रियपञ्चक-
प्राणादिपञ्चकसंयुक्तं जायते । तदुक्तम्- पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।
अपञ्चीकृतभूतोत्त्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १ ॥ इति । तच्च द्विविधं परमपरं च ।
तत्र परं हिरण्यगर्भं लिङ्गशरीरम् । अपरमस्मदादिलिङ्गशरीरम् । तत्र हिरण्यगर्भलिङ्गशरीरं
महत्तत्वम् । अस्मदादिलिङ्गशरीरमहङ्कार इत्याख्यायते (वे० प० ७ प०) । स्थूलशरीरं
यथा - स्थूलभूतानि तु पञ्चीकृतानि । एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवः स्वः
.....अत्रापि चतुर्विधस्थूलशरीरम् । अस्यैषा समष्टिः स्थूलशरीरमन्नमय-
विकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते
(वे० सा०) ।
 
....
 
१. चेष्टेन्द्रियार्थाश्रयः शरीरम् (गौ० १/१/११) (त० भा० प्रमेय० पृ० २५)।
अत्र व्युत्पत्तिः शीर्यते इति (शु ईरन्) । प्रतिक्षणं क्षीयमानं देहं शरीरम् । शरीरत्वं न