2023-03-12 05:01:54 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
प्रतिपादयन् पतञ्जलिरत्र च व्याख्यापरौ कैयटो नागेशश्च शब्दब्रह्म अभिप्रयन्ति
स्वीकुर्वन्ति च । व्याकरणमहाभाष्ये पस्पशाह्निके चत्वारि शृङ्गा त्रयोऽस्यपादाः इति
ऋचो व्याख्यायां शब्दरूपं परं ब्रह्म श्रीपतञ्जलिः साधितवान् । ऋचोऽ क्षरे परमे व्योमन्
यस्मिन् देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत तद् विदुस्त
इमे समासते ( ऋ० वे० १।१६४।३९) । इति ऋचो व्याख्या शब्दब्रह्मपरा वर्तते ।
चत्वारि वाक् परिमितानि पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता
नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ( ऋ० वे० १ ।१६४।१०) । इति ऋचो व्याख्यापि
शब्दब्रह्मपरा । यथा च वाचा विरूपनित्यया (ऋ० वे० ८/७५।६) ।
-
-
४२१
यदि वै प्रजापतेः परमस्ति वागेव (श० प० ब्रा० ५ । १ ।३।३) । एष उ एव
ब्रह्मणस्पतिर्वाग् वै ब्रह्म (बृ० उ० १ । ३ । २१ ) । शैलिनी र्वाग् वै ब्रह्म (बृ० उ०
४।१।२) । स यो वाचं ब्रह्मेत्युपास्ते..... यथा कामचारो भवति यो वाचं ब्रह्मेत्युपास्ते
(छा० उ० ७ ।२।२) । ॐकार एवेदं सर्वमोंकार एवेदं सर्वम् (छा० २।२३।३) ।
यथा च - अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् । प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते
(वा० प० १ । १३०) । इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् । तदक्षरं शब्दरूपं सा
पश्यन्ती सा परा हि वाक् (शिवदृष्टौ २।२) । अयमेव शब्दाद्वैतः सत्ताद्वैतः । सत्तात्र
जाति: जातिश्च शब्दार्थः । सत्ताद्वैत एव भाषाद्वैतः । विस्तरस्तु शंकराप्राग-
द्वैतवादग्रन्थे द्र० ।
शमः - अन्तःकरणस्य संसर्गनिवृत्तिः । अत्र च वेदान्तप्रतिपादितपदार्थेभ्योऽन्यत्र
अन्तःकरणनिवृत्तिर्ज्ञेया । तेन श्रवणमनननिदिध्यासनादौ न दोषः । यथा - शमस्ता-
वच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः । वेदान्ताध्ययनस्य अधिकारी
साधनचतुष्टयसम्पन्नो भवेत् । साधनचतुष्टयं च । यथा साधनानि नित्यानित्यवस्तु-
विवेकेहामुत्रफलभोगविरागशमादिषट्कसम्पत्तिमुमुक्षुत्वादीनि (वे० सा०) । यथा च -
अन्तरिन्द्रियनिग्रहः शमः (वे० प० ८ प०) ।
शमादिषट्कसम्पत्तिः – वेदान्ताध्ययने शमादयः षट् सम्पत्तयोऽपेक्ष्यन्ते । ताश्च
शमः दमः उपरतिः तितिक्षा समाधानं श्रद्धा च । यथा - शमादयस्तु शमदमोपरति-
तितिक्षासमाधानश्रद्धाख्याः । शमस्तावच्छ्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः ।
दमो बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां तद्
व्यतिरिक्तविषयेभ्य उपरमणमुपरतिः । अथवा विहितानां कर्मणां विधिना परित्यागः ।