This page has been fully proofread once and needs a second look.

४२०
 
शाङ्कुरवेदान्तकोशः
 
शब्दो ध्वन्यात्मको वर्णात्मकश्च इति न्यायवैशेषिकौ । शब्दो ध्वनिरूपः क्षणिकोऽनित्य-

श्चेति बौद्धाः । शब्दः पौद्गलिक कार्यो द्रव्यरूपो वर्णात्मकोऽनित्यश्चेति जैनाः ।

शब्दतन्मात्रैवाकाशः अत आकाशवच्छब्दोऽपि व्यापकः । ध्वन्यात्मको वर्णरूपः शब्द

इति सांख्ययोगौ । यथा च - गुणः । (क) श्रोत्रग्रहणो योऽर्थः स शब्दः । शब्दलक्षणं

च श्रोत्रग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य० ४९) । अथवा श्रवणेन्द्रियजन्यलौकिक-

प्रत्यक्षविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वम् । तादृशजातिश्च शब्दत्वरूपा । गुणव्याप्य

जातिघटितलक्षणकरणेन अश्रुतशब्दे नाव्याप्तिः । न वा सत्त्वगुणादिकमादाय

गुणान्तरेष्वतिव्याप्तिश्च (वै० वि०२।२।२१) । शब्दस्तु आकाशमात्रवृत्तिः बाह्यैकेन्द्रिय-

ग्राह्यः द्विक्षणावस्थायी तृतीयक्षणे नश्यति च । अत एवानित्य इति नैयायिकसिद्धान्तः ।

पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति इति सांख्यवेदान्तिनश्चाहुः । स्वतन्त्रास्तु भेर्यां शब्दः

मृदङ्गे शब्दः इति व्यवहारात् पृथिव्यामेव शब्दमिच्छन्ति (सि० च० १ पृ० १९) ।

शब्दो न स्पर्शवद् विशेषगुणःप्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् अभावद्रव्यभावित्वात्

आश्रयादन्यत्र श्रोत्रदेशे उपलब्धेश्च । शब्दो गुणो भूत्वाकाशस्याधिगमे लिङ्गम् (प्रशस्त ०

पृ० ६) (मु० ख०) । इति । (न्यायकोशः) ।
6
 
-
 
शब्दब्रह्म -

 
शब्दब्रह्म, शब्दब्रह्मन्
१. वेदोक्तकर्मानुष्ठानफलम् । २. वेदकर्मप्रतिपादकम् । ३. वेदः ।

यथा- जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुमिच्छन् योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः

सामर्थ्यात् सोऽपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलमतिवर्ततेऽपाकरिष्यति किमुत

बुद्ध्या यो योगं तन्निष्ठोऽभ्यासं कुर्यात् (गी० ६।४४ शा० भा०) । यथा च -

शब्दब्रह्म वेदकर्मप्रतिपादकमतिवर्तते अतिक्रम्य तिष्ठति (तत्रैव म० सू०) । यथा च -

शब्दब्रह्म वेदमतिवर्तते वेदोक्तकर्मफलान्यतिक्रामति (तत्रैव श्रीधरी) ।४. कर्मकाण्डम् ।

यथा – शब्दब्रह्म कर्मकाण्डं वेदमप्यतिक्रम्य वर्तते किं पुनः पित्राद्याज्ञाम् (तत्रैव नी०

क०) । ५. वैयाकरणैः परा पश्यन्ती वा वाक्(शब्दः) ब्रह्म मन्यते । यथा अनादिनिधनं

ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ (वा०प०

१।१)। आचार्यमण्डनमिश्रेण शब्दाद्वैतब्रह्मवादमाश्रित्यैव ब्रह्मसिद्धि-नामको ग्रन्थो

निरमायि । तत्र ब्रह्मसिद्धौ ब्रह्मकाण्डस्यान्तिमायां कारिकायाम्- अन्यैर्ब्रह्मविद्भिः

इत्युक्तम् । अन्यैर्ब्रह्मविद्भिः इति पदाभ्यां श्रीमर्तृहरिप्रभृतय आचार्याः स्मृता इति

सम्प्रदायविदः कथयन्ति। वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे इति वदन्

मनुः । शब्द इति चेन्नातः प्रभवात् (ब्र० सू० १ ।३।२८ ) । इति ब्रह्मसूत्रे

सोऽयमक्षरसमाम्नायः । ब्रह्मराशिः इति व्याकरणमहाभाष्ये १/१/२ आह्निके