This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
४१९
 
-
 
-
 
शक्तिभेदः - ,शक्तिभेद
प्रतिवेदान्तं शक्तेरनेकं रूपमनेके भेदा उपलभ्यन्ते । यथा - ब्रह्मसूत्रे

तदधीनत्वार्थवत् १ । ४ । ३ शा० भाष्ये अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या

परमेश्वराश्रया मायामयी महासुप्तिः । यस्यां स्वरूपबोधरहिताः शेरते संसारिणो जीवाः ।

तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम् । एतस्मिन्तु खल्वक्षरे गार्ग्याकाश ओतः

प्रोतश्च (बृ० उ० ३/८/११) इति श्रुतेः । क्वचिदक्षरशब्दोदितम् - अक्षरात्परतः

परः (मु० २।१।२) । इति श्रुतेः । क्वचिन्मायेति सूचितम्- मायां तु प्रकृतिं विद्यान्

मायिनं तु महेश्वरम् (श्वे० ४।१०) इति मन्त्रवर्णात् । यथा च - अव्यक्तनाम्नी

परमेशक्तिरनाद्यविद्या त्रिगुणात्मिका या (विवेकचूडामणौ ११०) । यथा च शक्तिद्वयं

हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् (दृग्दृश्यविवेके

१३) । विष्णुपुराणे (६।७।६१) । यथा च - विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या

तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते । तत्रैव च - ह्लादिनी सन्धिनी

संवित् त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते । यथा च

स्वच्छन्दतन्त्रे – कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते । यथा च प्रत्यभिज्ञादर्शने

चित् आनन्दः इच्छा ज्ञानं क्रियाः इमाः शक्तयः ।
 
-
 
-
 
-
 

 
शतम्, शतम्
शतसंख्यावाची तथा वह्वर्थवाची अयं शब्दः । यथा - शताद्या

द्विपरार्द्धान्ता संख्या स्वार्थपरा क्वचित् । प्रायोऽनेकार्थिका ज्ञेया इतिहासपुराणयोः

(भाग० १०/५९/३ बंशीधरी टी०) । शतायुर्वै पुरुषः (कौषतकी ब्राह्मणे ११।७)।

अन्यत्र च- शतायुर्वै पुरुषः सहस्रायुः शतेन्द्रियः । शतेन्द्रियाः = देवाः ।
 

 
शब्द:
 
, शब्द
आकाशमात्रस्य गुण इति नैयायिकाः । किन्तु अद्वैतवेदान्तमते

वाय्वादीनामपि शब्दो गुणः । नैयायिका आकाशाद् वायोरुत्पत्तिं न मन्यन्ते । अतः

आकाशगुणस्य शब्दस्य वाय्वादिक्रमेण तेज आदिषु अङ्गीकारो न युक्तः। अद्वैतिनां

तु आकाशाद् वायुरिति श्रुतेराकाशगुणस्य वाय्वादावपि तम्भवः । यथा - न च

शब्दस्याकाशमात्रगुणत्वम् । वाय्वादावपि तदुपलम्भात् । नचासौ भ्रमः बाधकाभावात्

(वे० प० ७ प०) । यथा च - शब्दस्पर्शी रूपरसौ गन्धो भूतगुणा इमे । एकद्वित्रिचतुः

पञ्च गुणा व्योमादिषु क्रमात् । प्रतिध्वनिर्वियच्छब्दः वायौ वीसीति शब्दनम् । अनुष्णा-

शीतसंस्पर्शो वह्नौभुगुभुगुध्वनिः । शीतस्पर्शः शुक्लरूपं रसो माधुर्यमीरितम् । भूमौ कड-

कडाशब्दः । काठिन्यं स्पर्श इष्यते । नीलादिकं चित्ररूपं मधुराम्लादिको रसः (प० द०

पञ्चभूतवि० प्र० २-४) । वर्णा एव तु शब्द इति भगवानुपवर्षः (ब्र० सू० १ ।३।२८

शा० भा०) । अयमेव अद्वैतसिद्धान्तः । स्फोट एव शब्द इति वैयाकरणाः । आकाशगुण:
 
1