This page has not been fully proofread.

४१८
 
शाङ्कुरवेदान्तकोशः
 
(ब्र० सू० १1१1१ उपो० भाम० ) । यथा च - मायामात्र० ब्र० सू० ३।२।३
शुद्धाद्वैतिपुरुषोत्तमाचार्यस्य प्रकाशटीकायाम् - ईश्वरस्य या व्यामोहिका शक्तिः सा
माया । यथा च - ब्रह्मसूत्रे १/१/१ श्रीभाष्ये अनेकाः शक्तयः उक्ताः ।
काश्मीरप्रत्यभिज्ञादर्शने परमेश्वरस्य पञ्च शक्तयो गण्यन्ते - चित् आनन्दः इच्छा
ज्ञानं क्रिया चेति । तन्त्रसारे उक्तम् - आनन्द:
आनन्द: स्वातन्त्र्यं
स्वात्मविश्रान्तिस्वभावह्लादप्राधान्यात् । एवम् इयं चिच्छक्तिरेव संविद् शक्तिरप्युच्यते ।
यथा – विश्वात्मिकां तदुत्तीर्णां हृदयं परमेशितुः । परादिशक्तिरूपेण स्फुरन्तीं संविदं
नुमः (क्षेमराजः) । यथा च - सर्वाकारयोगित्वं क्रियाशक्तिः (त० सा० १ आ० ) ।
यथा च - ह्लादिनी सन्धिनी संवित् त्वय्येका सर्वसंश्रये । ह्ह्लादतापकरी मिश्रा त्वयि
नो गुणवर्जिते (तत्रैव वि० पु०) । यथा च - भगवत्प्रीतिरूपा वृत्तिर्मायादिमयी न
भवति किं तर्हि स्वरूपशक्त्यानन्दरूपा यथानन्दपराधीनः श्री भगवानपीति ।
(चैतन्यमतस्य प्रीतिसन्दर्भे) । यथा च - तदीया परमा शक्तिः सच्चिदानन्दरूपा
समस्तलोकनिर्माणसमवायस्वरूपिणी । तदिच्छयाऽभवत् साक्षात् तत्स्वरूपानुकारिणी
(माध्वदर्शनस्य सिद्धान्तशिखामणौ ) । माध्वदर्शने परमेश्वरस्य चतस्रः शक्तयो
भवन्ति.... । १. अचिन्त्यशक्तिः। २. आधेयशक्तिः । ३. सहजशक्तिः ।.
 
४. पदशक्तिश्च । यथा च - १. (क) कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः
स च धर्मः प्रतिबन्धकाभावादिरूपकारणात्मकः (त० दी० ४।४६) यथा वह्नौ
दाहानुकूला शक्तिः । (ख) कारणत्वम् । तच्च स्वस्वव्याप्येतरसकलसम्पत्तौ कार्याभाव-
व्यापकाभावप्रतियोगित्वम् (चि० २) । (ग) मीमांसकविशेषाः प्राभाकरास्तु शक्तिः
पदार्थान्तरमेव न तु कारणत्वरूपा इत्याहुः (नील० पृ० ४६) (दि० १ पृ० २२)।
२. पौराणिकास्तु स्त्रीदेवता शक्तिः । यथा वैष्णवी ब्राह्मी गौरी च इत्याहुः । अत्रोक्तम्
इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । ३. तान्त्रिकास्तु पीठाधिष्ठातृदेवता-
विशेष इत्याहुः । ४. इच्छामात्रं शक्तिरिति नव्या आहुः (मु० ४) (वात्स्या० २।१।५४) ।
मीमांसकास्तु अभिधा नाम पदार्थान्तरं संकेतग्राह्यं शक्तिः इत्याहुः (न्या० मु० ३)
(त० दी०) (ग० शक्तिः) । ६. पदपदार्थयोर्वाच्यवाचकभावनियामकं सम्बन्धान्तरं
शक्तिः इति शाब्दिका वदन्ति (वै० सा० द०) (वै० ल० म०) । ७. वेदान्तिनस्तु
अङ्गुलिप्रसारणादिपूर्वकं निर्देशेन शक्तिग्रहो भवति । यथा बाल तवेयं माता तवायं
पिता अयं ते भ्राता कदलीफलमभ्यवहरति इति निर्देशेन बालस्य मात्रादौ शक्तिग्रह
इत्याहु: (प्र० च० परि० १ पृ० ३८) (न्या० को०) ।