This page has been fully proofread once and needs a second look.

शक्तिः, शक्ति
सामर्थ्यम् । यथा - शक्तिस्तदर्थविवर्तनसामर्थ्यम् (गी० मं० श्लो०
१ आ० गि०) । इयं शक्तिर्ब्रह्मणो मायारूपा ब्रह्मणि चानेकाः शक्तयः सन्ति । यथा -
सर्वोपेता च तदर्शनात् (ब्र० सू० २ । १ । ३०) । अत्र शा० भा० - एकस्यापि ब्रह्मणो
विचित्रशक्तियोगादुपपद्यते विचित्रो विचार प्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते
विचित्रशक्तियुक्तं परं ब्रह्मेति । तदुच्यते - सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता
च परा देवतेत्यभ्युपगन्तव्यम् । कुतः तद्दर्शनात् । तथा हि तद् दर्शयति श्रुतिः सर्वयोगं
परस्या देवतायाः सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोवाक्यनादरः
- छा० ३।१४।४। सत्यकामः सत्यसङ्कल्प: (छा० ८।७।१ ) । सर्वज्ञः सर्ववित्
- मुण्ड० १।१।९ - एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ
तिष्ठतः - बृ० उ० ३।८।९ - । इत्येवं जातीयका (तत्रैव शा० भा० ) । यथा
च-- प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मण: सर्वशक्तियोगः
सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव । तथा च शास्त्रम् - अपाणिपादो
जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः (श्वे० ३।१९) । इत्यकरणस्यापि ब्रह्मणः
सर्वसामर्थ्ययोगं दर्शयति (ब्र० सू० २।१।३१ शा० भा० ) । यथा च भामती
मङ्गलश्लोकस्य - षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि इत्यस्य वेदान्तकल्पतरु
व्याख्यायामुक्तम् – ईश्वरस्य षडङ्गानि पुराणोक्तानि - सर्वज्ञता तृप्तिरनादिबोधः
स्वतन्त्रता नित्यमलुप्तशक्तिः । अचिन्त्यशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य
इति । अव्ययानि वायुपुराणे पठ्यन्ते -ज्ञानं विरागतैश्वर्यं तपः सत्यं क्षमा धृतिः ।
स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च (वे०क०त०) । तत्रैव भामत्याम्-पञ्चममङ्गल-
श्लोके ज्ञानशक्तेरवतारो व्यासः कथितः- ज्ञानशक्त्यवतराय नमो भगवतो हरे: (भा०
म० श्लो० ५) । यथा च - मायामत्रं तु कर्त्येनानमिव्यक्तस्वत्वात् (ब्र० सू० ३ । २।३) ।
शा० भाष्ये मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धोऽप्यस्ति । यथा च - भामतीमङ्गलश्लोके
अनिर्वाच्याविद्याद्वितीयसचिवस्य । १. दहराधिकरणे १ ।३।१९ ब्र० सू० शा० भा०
तथा अन्यत्रापि अविद्या एवं माया एकैवेति । देवात्मशक्तिं स्वगुणैर्निगूढां मुनयोऽविन्दन्
परास्य शक्तिर्विविधा क्रियाज्ञानफलात्मिका (प० द० १३।१ ) अद्वैतबेदान्ते सर्वेषां
कार्याणां कारणतावच्छेदिका कार्यानुकूला शक्तिरङ्गीक्रियते । यथा - अस्माकं तु मते
सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वान्न कोऽपि दोषः (वे० प० ४ प०) । यथा
च- अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप
सर्वथा (वि० पु० ६ ।७।६१) । यथा च तस्मादसप्रकाशनशक्तिरेवाविद्येति साम्प्रतम्