This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
महिष्यादेर्व्यावर्तकम् ।
 
इतरभेदविधेयकानुमितिजनकतावच्छेदकविषयता विशेषाश्रयः

इति तदर्थ: (नील० १ पृ० ४) । २. क्वचिद् विशेष्यतावच्छेदकसमानाधि-

करणाभावप्रतियोगि। एतच्च व्यावर्तकं द्विविधम् विशेषणम् उपलक्षणं चेति ।

तत्राद्यं यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । द्वितीयं यथा काकवन्तो

देवदत्तस्य गृहा इति ।
 
४१६
 
ब्

 
व्
यावहारिकम् - , व्यावहारिक
व्यावहारिकसत्यं जगदादि । व्यवहर्तुं योग्यमित्यर्थः न

पारमार्थिकम् ।
 

 
व्यावृत्तिः- , व्यावृत्ति
१. (क) तत्तद्धर्मावच्छिन्नेतरभेदः (नील० पृ० ५) । यथा

व्यार्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वादौ चातिव्याप्तिः (त० दी० ) । इत्यादौ

व्यावृत्तिशब्दस्यार्थः । (ख) इतरभेदानुमितिः । यथा व्यावृत्तिर्व्यवहारो वा लक्षणस्य

प्रयोजनमित्यत्र व्यावृत्तिशब्दस्यार्थः पृथिवीतरेभ्यो भिद्यते इत्यनुमितिः । तथा हि

गन्धाभाव इतरव्यापकत्वग्रहे सति गन्धवती पृथिवी इति पक्षधर्मताग्रहे पृथिवीतरेभ्यो

भिद्यते इत्यनुमितिरुत्पद्यते सैव व्यावृत्तिः (वाक्य पृ० २) । २. अत्यन्ताभावः । यथा

यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिः (पि० २

पृ० २८) । इत्यादौ ।
 
-
 

 
व्यासज्यवृत्तित्वम् - , व्यासज्यवृत्तित्व
१. स्वस्मानाधिकरणभेदप्रतियोगितावच्छेदकत्वम् (ग० २

मिश्र०) ।
समानाधिकरणभेदप्रतियोगितावच्छेदकत्वतादात्म्यैतदुभय-

चतु०
 

 
सम्बन्धेन यत्किञ्चित्पदार्थविशिष्टत्वमित्यर्थः । यथा उभयत्वस्य व्यासज्यवृत्तित्वम् ।

२. अपेक्षाबुद्धिविशेषविषयत्वमपेक्षाबुद्धिजन्यत्वं वा । यथा द्वित्वत्रित्वादीनां व्यासज्य-

वृत्तित्वम् (ग० व्यु० का० १) (न्या० को०) ।
 

 
व्रतः - , व्रत
नियमः, भक्तिश्च । यथा च - "यान्ति गच्छन्ति देवव्रता देवेषु व्रतं

नियमो भक्तिश्च येषां ते देवव्रता देवान् यान्ति । पितृनग्निष्वात्तादीन्यान्ति पितृव्रताः

श्राद्धादिक्रियापराः पितृभक्ताः" (गी० ९/२५ शा० भा०) । यथा च - "देवव्रता

देवेषु व्रतं बल्युपहारप्रदक्षिणाप्रह्लीभावादिरूपो नियमो भक्तिश्च येषां ते । तथा च

पितृष्वग्निष्वात्तादिषु व्रतं श्राद्धादिक्रियानियमो भक्तिश्च येषां ते" (तत्रैव भाष्यो०)।

यथा च - "पितृनग्निष्वात्तान्यान्ति पितृव्रता श्राद्धादिक्रिया पराः पितृभक्ताः" (गी०

९।२५ शा० भा०) । यथा च - "राजसास्तु पितृभक्ताः श्राद्धादिक्रियाभिरग्निष्वात्ता-

दीनां पितृणामाराधकास्तामेव पितॄन् यान्ति (तत्रैव म० सू०) ।
 
-