2023-03-12 05:01:52 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
४१५
T
भगवतो द्यौर्मूर्धा सुतेजा: । चक्षुश्च विश्वरूपः सूर्यः । प्राणो वायुः । तदेवं
वैश्वानरावयवेषु द्युसूर्यानिखिलाकाशजलावनिषु मूर्धचक्षु प्राणसन्देहवस्तिपादेष्वेकैकस्मिन्
वैश्वानर-बुद्ध्या विपरीततयोपासकानां.....निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायते-
"यस्त्वेतमेवं प्रादेशमात्रमभिविमानम् इति । (तत्रैव भाम० ) । यथा च - "तैरण्डस्तत्र
भुवनं भोग्यभोगाश्रयोद्भवः । हिरण्यगर्भः स्थूलेऽस्मिन्देहे वैश्वानरो भवेत् (प० द०
१।२८)।
-
वैष्णवपदम् - सर्वत्र व्यापकम् आत्मपदम् । यथा च "एवञ्च सति
वक्ष्यमाणरक्षककल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते नान्यथा स्वभावानति-
क्रमात् (का० उ० ३ । ४ । शा० भा० ) । यथा च - "वैष्णवपदप्राप्तिश्रुत्यनुपपत्त्यापि
न. स्वाभाविकं भोक्तृत्वं वाच्यमित्याह" (तत्रैव शा० भा० आ० टी०) ।
व्यष्टिः - इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवह्रियते । तथा
हि - यथा वृक्षाणां समष्ट्यमिप्रायेण वनमित्येकत्वव्यपदेशो यथा वा जलानां
समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां
समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः अजामेकाम् इत्यादिश्रुतेः । इयं समष्टिरुत्कृष्टोपाधितया
विशुद्धसत्त्वप्रधाना । ....यथा वृक्षस्य व्यष्ट्यभिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशाः । यथा
वा जलाशयस्य व्यष्ट्यभिप्रायेण जलानीति (वे० सा० ) । यथा च - "व्यक्तयः
स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्त्यभिव्यज्यन्ते" (गी० ८।१८ शा० भा०) ।
-
ब्यानः – वाक् । यथा – "प्राणापानयोः सन्धिस्तयोरन्तरा वृत्तिविशेषः स व्यानो
यः सांख्यादिशास्त्रप्रसिद्धश्रुत्या विशेषनिरूपणेनासौ व्यान इत्यभिप्रायः । यो व्यानः
सा वाक्, व्यानकार्यत्वात् (छा० उ० १ ।३।३ शा० भा० ) ।
….
व्याप्तिः - व्याप्तिश्च अशेषसाधनाश्रयाश्रितसाध्यसमानाधिकरण्यरूपा । सा च
व्यभिचारादर्शने सति सहचारदर्शनेन 'गृह्यते । तच्च सहचारदर्शने न भूयो दर्शनं
सकृद्दर्शने वेति विशेषो नादरणीयः सहचारदर्शनस्यैव प्रयोजकत्वात् । तच्चानुमानम्
अन्वयिरूपमेकमेव, न तु केवलान्वयि । सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ता-
भावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः
(वे० प० २ १०) ।
ब्यावर्तकम् – १ . आश्रयाणां परस्परभेदानुमितिजनकम् । यथा विशेषस्तत्तत्परमाणूनां
व्यावर्तकः । तथा हि- अयं पृथिवीपरमाणुरितरपरमाणुभ्यो भिद्यते एतद्विशेषात्
इत्यंनुमाने विशेषस्य हेतुत्वं बोध्यम् (वाक्य पृ० २२) । यथा वा सास्नादिमत्त्वं