This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
देशनाऽऽभिन्ना शून्यताद्वयलक्षणा । यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति

तथापि सर्वास्तितायामस्ति सप्रतिपतिरित्येकीकृत्योपन्यासः ।
 

१. क्षणिकः पदार्थः । २. सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धागमः ।

३. बौद्धागमाभिज्ञः । केचित्तु मायावादिनः तार्किकस्यार्धवैनाशिकत्वं मेनिरे । ४.

ज्यौतिषज्ञास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशनक्षत्रमित्याहुः । ५. परतन्त्रः ।

६. ऊर्णनामिः (मेदि०) (वाच०) (न्यायकोशः) ।
 
४१४
 
बै

 
वै
राजम्, वैराज
स्वर्गलोकसम्बन्धिपदम्, हिरण्यगर्भलोको वा । यथा - "स्वर्गलोके

विराजे विराडात्मस्वरूपतया प्रतिपत्त्या । विराजः इदं वैराजम् पदम् (का० उ० १/१८

शा० भा० ) ।
 
-
 
बै

 
वै
शारद्यम् - , वैशारद्य
विशुद्धोद्वैतभावः । यथा- "विशुद्धेर्भावो वैशारद्यम् = यस्मात्

वैशारद्यं विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैतमार्गेऽविद्याकल्पिते सर्वदा वर्तमानानामित्यर्थः

(मा० उ० गौ० का० ४।९४ शा० भा०) ।
 
-
 
बै

 
वै
श्वानरः - , वैश्वानर
१. व्यापकः सर्वनराधिष्ठाता, विश्वाधिष्ठाता । यथा - "विश्वेषां

नराणामनेकधा नयनाद् वैश्वानरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरो विश्वानर

एव वैश्वानरः (मा० उ० १।४।१ शा० भा०) ।२. परमात्मा । यथा - "तत इदमुच्यते-

वैश्वानरः परमात्मा भवितुमर्हतीति । कुतः ? साधारणशब्दविशेषात् 'इत्यादि (ब्र० सू०

१।२४-२६)। ३. यथा च- "यस्त्वेतमेव प्रादेशमात्र अभिविमानमात्मानं

वैश्वानरमुपास्ते" (छा० ५/१८/१) (ब्र० सू० ३।३।४) । ४. जीवः । यथा च -

"वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः ।

तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः ।...."अयमग्निर्वैश्वानरो

योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते (बृ०उ० ५।९) । इत्यादौ । अग्निमात्रं

वा स्यात् सामान्येनापि प्रयोगदर्शनात् ।" वैश्वानरस्य सुमतौ स्याम राजा हि कं

भुवनानामभिषीः (ऋ० सं० १/९८।१ ) । इत्येवमाद्याः श्रुतेर्देवतायाद्युपेतायां सम्भवात् ।

....तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते- वैश्वानरः परमात्मा भवितुमर्हतीति ।

कुतः ? साधारणशब्दप्रयोगात् । तस्मात् परमेश्वर एव वैश्वानरः (ब्र०सू०

१ । २ । २४ शा० भा० ) । यथा च "मूर्धा ते व्यपतिष्यदित्यादिनैकैकोपासननिन्दय

तस्या हवा एतस्येत्याविना वैश्वानरस्य धुलोकादयो मूर्धादय कथनेनावयविनः

समस्तभावमुपदिश्येत्यर्थः (तत्रैव वे० क० त०) । यथा च -अयमर्थः - वैश्वानरस्य