This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
देशनाऽऽभिन्ना शून्यताद्वयलक्षणा । यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति
तथापि सर्वास्तितायामस्ति सप्रतिपतिरित्येकीकृत्योपन्यासः ।
 
१. क्षणिकः पदार्थः । २. सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धागमः ।
३. बौद्धागमाभिज्ञः । केचित्तु मायावादिनः तार्किकस्यार्धवैनाशिकत्वं मेनिरे । ४.
ज्यौतिषज्ञास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशनक्षत्रमित्याहुः । ५. परतन्त्रः ।
६. ऊर्णनामिः (मेदि०) (वाच०) (न्यायकोशः) ।
 
४१४
 
बैराजम् – स्वर्गलोकसम्बन्धिपदम्, हिरण्यगर्भलोको वा । यथा - "स्वर्गलोके
विराजे विराडात्मस्वरूपतया प्रतिपत्त्या । विराजः इदं वैराजम् पदम् (का० उ० १/१८
शा० भा० ) ।
 
-
 
बैशारयम् - विशुद्धोद्वैतभावः । यथा- "विशुद्धेर्भावो वैशारद्यम् = यस्मात्
वैशारद्यं विशुद्धिर्नास्ति तेषां भेदे विचरतां द्वैतमार्गेऽविद्याकल्पिते सर्वदा वर्तमानानामित्यर्थः
(मा० उ० गौ० का० ४।९४ शा० भा०) ।
 
-
 
बैश्वानरः - १. व्यापकः सर्वनराधिष्ठाता, विश्वाधिष्ठाता । यथा - "विश्वेषां
नराणामनेकधा नयनाद् वैश्वानरः, यद्वा विश्वश्चासौ नरश्चेति विश्वानरो विश्वानर
एव वैश्वानरः (मा० उ० १।४।१ शा० भा०) ।२. परमात्मा । यथा - "तत इदमुच्यते-
वैश्वानरः परमात्मा भवितुमर्हतीति । कुतः ? साधारणशब्दविशेषात् 'इत्यादि (ब्र० सू०
१।२४-२६)। ३. यथा च- "यस्त्वेतमेव प्रादेशमात्र अभिविमानमात्मानं
वैश्वानरमुपास्ते" (छा० ५/१८/१) (ब्र० सू० ३।३।४) । ४. जीवः । यथा च -
"वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः ।
तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः ।...."अयमग्निर्वैश्वानरो
योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते (बृ०उ० ५।९) । इत्यादौ । अग्निमात्रं
वा स्यात् सामान्येनापि प्रयोगदर्शनात् ।" वैश्वानरस्य सुमतौ स्याम राजा हि कं
भुवनानामभिषीः (ऋ० सं० १/९८।१ ) । इत्येवमाद्याः श्रुतेर्देवतायाद्युपेतायां सम्भवात् ।
....तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते- वैश्वानरः परमात्मा भवितुमर्हतीति ।
कुतः ? साधारणशब्दप्रयोगात् । तस्मात् परमेश्वर एव वैश्वानरः (ब्र०सू०
१ । २ । २४ शा० भा० ) । यथा च "मूर्धा ते व्यपतिष्यदित्यादिनैकैकोपासननिन्दय
तस्या हवा एतस्येत्याविना वैश्वानरस्य धुलोकादयो मूर्धादय कथनेनावयविनः
समस्तभावमुपदिश्येत्यर्थः (तत्रैव वे० क० त०) । यथा च -अयमर्थः - वैश्वानरस्य