This page has been fully proofread once and needs a second look.

संस्कारस्कन्धश्च । (ब्र० सू० २ ।२।१८ क० त० ) । यथा वेदमास्कन्ध इति भाष्योपादानं
या प्रियेत्यादि तद्व्याख्यानम् । सविकल्पप्रत्यय इत्यनेन विज्ञानस्कन्धो निर्विकल्प इति
भेदः स्कन्धयोर्ध्वनितः । उक्तं च प्रागुक्तस्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्यय-
प्रवाहः ।
 
वेदवाक्यम्, वेदवाक्य
प्रमाणान्तरागोचरार्थप्रतिपादकं वाक्यम् (सर्व० सं० पृ०
२७३-७४ जै०) (न्या० को०) ।
 
वेदविदः, वेदवित्द्
उपनिषद्विदः । यथा - "यदक्षरं प्रणवाख्यं वाचकं वेदविदो
वेदादौ वदन्ति । यद्वा यदक्षरं ब्रह्म तवाच्यम् एतद्वै यदक्षरं गार्गि ब्राह्मणा
अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घम्" इत्येवं लक्षणं वा वेदविद उपनिषद्विदो वदन्ति"
(गी० ८/११ नी० क०) ।
 
वेदादिगी:, वेदादिगी
महावाणी, महावाक्यम्, उपनिषद् । यथा - "तथा च सर्वत्रैव
वेदान्तेषु महागिरां ग्राहक उपनिषच्छब्दो भवेत् । वेदश्चायं महावाक्यलक्षण एवार्थाद्
सिद्ध इत्यर्थः । अतोऽन्यन्महावाक्यातिरिक्तमस्य महावाक्यस्य निकटं तदपेक्षितार्थ-
सम्पर्कत्वेन तदेकार्थनिष्ठं यतस्तेन हेतुनात्र वाक्यान्तभागे वेदादिगीरध्येतॄणामित्यर्थः
(सं० शा० ३।२९९ अ० टी०) ।
 
वेदान्तः, वेदान्त
ब्रह्मविद्या प्रतिपादकानि ब्रह्मसूत्रादिशास्त्राणि । यथा - १ . ( क ) वेदान्तो
नाम उपनिषत् प्रमाणम् । तदुपकारीणि शारीरकसूत्रादीनि (वे० सा०) । (ख) वेदाना-
मन्तिमो भागः उपनिषद् ।
 
वैनाशिक:, वैनाशिक
बौद्धः, सर्वक्षणिकवादी । यथा- वैशेषिकराद्धान्तो दुर्युक्ति
योगाद् वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् । सोऽर्धवैनाशिक इति
वैनाशिकत्वसाम्यात् सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदानीमुपपादयामः
(ब्र० सू० २/२/१८ शा० भा०) । अत्र भामती - वादिवैचित्र्यात् खलु केचित्
सर्वास्तित्वेन राद्धान्तं प्रतिपद्यन्ते । केचिज्ज्ञानमात्रतास्तित्वम् । केचित् सर्वशून्यताम् ।
.....विनयभेदावा । हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते
सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन
शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते ।
यथोक्तं वोधिचित्तविवरणे - देशना लोकनाथानां सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा
लोक उपायैर्बहुभिः पुनः । १ । गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि