This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
-
 
ज्ञानगत -
 
वृत्तिव्याप्यत्वम् - , वृत्तिव्याप्यत्व
अन्तःकरणवृत्तौ घटादेविषयस्य व्याप्तिः । तथा हि-

अद्वैतवेदान्ते ज्ञानगतं प्रत्यक्षं तथा विषयगतं प्रत्यक्षं च द्वे भवतः । तत्र
ज्ञानगत -
प्रत्यक्षत्वस्य प्रयोजकं प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्यस्य च अभेदः ।

घटादिविषयगतप्रत्यक्षत्वप्रयोजकं तु विषयावच्छिन्नचैतन्यस्य तथा प्रमातृ-

चैतन्यस्याभेद इति मन्यते । चैतन्यं च त्रिविधं भवति - घटाघवच्छिन्नं चैतन्यं विषय-

चैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् । अन्तःकरणावच्छिन्नं

चैतन्यं प्रमातृचैतन्यम् । अतःकरणवृत्तिद्वारा अयंघट इति ज्ञानप्रत्यक्षं प्रमाणचैतन्य-

स्य तथा विषयावच्छिन्नचैतन्यस्य च अभेदो जायते । घटज्ञाने विषयरूपस्य घटस्य

प्रत्यक्षे घटादेर्विषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्यस्य च अभेदो जायते । इयं च वृत्तिरित्थं

भवति यथा – तैजसमन्तःकरणं चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषया-

कारेण परिणमते । एष एव परिणामो वृत्तिः इत्युच्यते । अस्यां वृत्तौ घटादेर्विषयस्य

व्याप्तिर्भवति । तदेव वृत्तिव्याप्यत्वमुच्यते । उक्तं च - बुद्धितत्स्थ - चिदाभासौ द्वावेतौ

व्यापृतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् (वे० सा०, प० द० ७।९१)।

द्रष्टव्यं वेदान्तपरिभाषायां वृत्तिस्वरूपम् । यथा च - फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्नि-

वारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता । स्वयंप्रकाशभानत्वान्नाभास

उपयुज्यते । ब्रह्मणि वृत्तिव्याप्यत्वं भवति फलव्याप्तिर्न भवति । (वे० सा० )

 
वेदः- १. , वेद
महावाक्यम्, श्रुतिश्च । यथा - "वेद्यते ज्ञाप्यतेऽनेन परं ब्रह्मेति

वेदो महावाक्यम् (सं० शा० ३।३९८ सु० टी० ) । यथा च - "उप समीपे

प्रत्यगात्मानमव्यवधानेन ब्रह्म गमयतीत्युपनिषन्महावाक्योत्था ब्रह्मविद्या ब्रह्म

प्रत्यगात्माऽभेदेन वेदयतीति वेदोऽपि सैव सा च महावाक्यैकनिबन्धनेति श्रुतिशिरसि

वेदान्तभागे निविष्ट उपनिषदितिशब्दो वेदशब्दश्चात्र महावाक्ये योज्यतामिति

योजना" (सं० शा० ३।२९८ अ० टी०) । २. कर्मकाण्डम् । यथा - "वेदशब्देनात्र

कर्मकाण्डमेव गृह्यते" (गी० २।४५ आ० गि०) । यथा च - "त्रयाणां गुणानां

कर्म त्रैगुण्यं काममूलः संसारः स एव प्रकाश्यत्वेन विषयो येषां तादृशाः वेदाः

कर्मकाण्डात्मकाः, यो यत्फलकामस्तस्यैव तत्फलं बोधयन्तीत्यर्थः" (तत्रैव मधु०) ।
 
४१२
 
-
 
बे

 
वे
दनास्कन्धः, वेदनास्कन्ध
"वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहित-

विशेषावस्था चित्तस्य जायतै स वेदनास्कन्धः" (ब्र०सू०२।२।१८ भाम०) । बौद्धसिद्धान्ते

ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकचित्तं चैत्तिकं

च तेषां मते पञ्च स्कन्धाः मन्यन्ते - रूपस्कन्धः विज्ञानस्कन्धः वेदनास्कन्धः संज्ञास्कन्धः