This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
पाधिकोऽपरिच्छिन्नो जीवः । स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्ति-

विरहदशायां न घटादिकमवभासयति । घटादिना तस्य सम्बन्धाभावात् । तत्तदाकार-

वृत्तिदशायां तु भासयति । तदा सम्बन्धसत्वात् । ..... स च सम्बन्धविशेषो विषयस्य

जीवचैतन्यस्य च व्यङ्ग्य़व्यञ्जकतालक्षणः कादाचित्कः तत्तदाकारवृत्तिनिबन्धनः ।

....एतन्मते च विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम् । एवं

जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम् । २: वृत्तिः– शक्तिः लक्षणा,

व्यञ्जना तात्पर्या च । ३. जीविका । ४. अर्थप्रक्रिया एका - यथा सूत्रवृत्तिः (अर्थः) ।
 
४११
 
-
 

 
वृत्तिचातुर्विध्यम् - , वृत्तिचातुर्विध्य
वृत्तिश्चतुर्विधा संशयो, निश्चयो गर्वः, स्मरणमिति (वे० परि०

१ प० ) । वृत्तिद्वयम् = तस्मादधिष्ठानांशे अन्तःकरणवृत्तिः अध्यस्तांशे चाविद्यावृत्तिः

तस्यां च तादात्म्यस्य भानात् नाख्यातिमतप्रवेशः (अ० सि०) । १ (क)

शाब्दबोधहेतुपदार्थोपस्थित्यनुकूल: पदपदार्थयोः सम्बन्ध: (चि० ४) (मु० ४ पृ०

१७४) । सा च पदवृत्तिः इत्युच्यत इति विज्ञेयम् (ग० शक्ति० पृ० २) । अत्र वृत्तित्वं

च शक्तिलक्षणान्यतरत्वम् (त० प्र० ख० ४ पृ० ३४) । परे तु

शाब्दबोधजनकपदपदार्थसम्बन्धत्वमित्याहुः (ल० म० स्फोट० पृ० १३) । सांख्यास्तु

महदादीनामिन्द्रियाणां च व्यापारो वृत्तिः । यथा अध्यवसायो (बुद्धेर्वृत्तिः) बुद्धिः (सां०

सू० २।१३) । इत्यादौ इत्याहुः । तत्रोक्तम्- रूपादिषु पञ्चानामालोचनमात्रमिष्यते

वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् । (सां० का० २८) इत्यादि । अत्र

योगशास्त्रप्रवर्तकः पतञ्जलि: सूत्रयामास वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ।

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगः सू० १ । ६-७) इति । अन्तःकरणपरिणामो

वृत्तिः इति मायावादिनो वेदान्तिन आहुः । अन्तःकरणवृत्तेः स्वरूपप्रयोजनादिकं यथा ।

यथा तडोगोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं

भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशं गत्वा घटादिविषयाकारेण

परिणमते । स एव परिणामो वृत्तिः इत्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य

वह्न्यादिदेशगमनम् । वह्न्यादेश्चक्षुराद्यसन्निकर्षात् । इन्द्रियजन्यवृत्तिश्चावरणभङ्गार्था

सम्बन्धार्था इति मतद्वैधम् (वेदा० प० ७ प०) (न्यायकोशः) ।
 
वृत्तित्वम् -

 
वृत्तित्वम्, वृत्तित्व
वृत्तित्वं तु शाब्दबोधजनकपदपदार्थसम्बन्धत्वमिति परे (वै०

सिं० ल० म० श० नि०) ।