This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
पृथग्भावं नानाभावेनावस्थानं परिदृश्यमानमिदं यदा एकस्थमेकस्मिन्नात्मनि स्थितं

रज्ज्वां सर्पादिवत् कनके वा कुण्डलादिवत् विलीनं शास्त्राचार्योपदेशमनुपश्यति । तत

एवैकस्मात् विस्तारं च भूतपृथग्भावस्य व्युत्थानावस्थामनु स्वप्नादिवत् पश्यति तदा

ब्रह्म सम्पद्यते ब्रह्मैव भवति" (तत्रैव नी० क० ) । यथा च - "यथा भूतानां

स्थावरजङ्गमानां पृथग्भावं भेदं पृथक्त्वमेकस्थमेकस्यामेवेश्वरशक्तिरूपायां प्रकृतौ स्थितं

प्रलयेऽनुपश्यत्यालोचयति, तत एव च तस्या एव प्रकृतेः सकाशाद्भूतानां विस्तारं

सृष्टिसमयेऽनुपश्यति तदा प्रकृतितावन्मात्रत्वेन भूतानामप्यभेदं पश्यन् परिपूर्ण ब्रह्म

सम्पद्यते ब्रह्मैव भवतीत्यर्थः (तत्रैव श्रीधरी) ।
 
४१०
 
-
 

 
वृक्षः - , वृक्ष
शरीरम् । छेदनशीलत्वादुच्छेद्यत्वाच्चोपचाराद् शरीरम् । यथा -

"अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि- समाने वृक्षे पुरुषो निमग्नोऽ-

नीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः"

- मु० ३।१।२ - । इति । (ब्र० सू० १ । २ । १२ शा० भा० ) । यथा च - "उच्छेद्यत्वाद्

वृक्षं शरीरं परिष्वक्तवन्तौ" (तत्रैव वे० क० त० ) । यथा च - "ओब्रश्चू च्छेदन

इति धातो वृक्षशब्दः ।" ननु पिप्पलशब्दोऽश्वत्थवाची फले लुगिति विकारार्थतद्धितलुकि

तत्फलं ब्रूयाद्, न तु कर्मफलमित्यत आह- संसारस्येति । उर्ध्वमूलोऽवाक्शाख

एषोऽश्वत्थः सनातन इति श्रुतिः (तत्रैव क० त० परि०) ।
 
-
 

 
वृत्तिः - , वृत्ति
१. इन्द्रियद्वारा विषयदेशं गत्वा अन्तःकरणस्य तत्तदाकारपरिणामः ।

यथा - "तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान्प्रविश्य तद्वदेव

चतुष्कोणाघाकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादि-

विषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिरित्युच्यते"

(वे० प० १ प०) । यथा च - सा चान्तःकरणवृत्तिरावरणाभिवार्थेत्येकं मतम् ।

तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया सर्वदा

घटादिभानप्रसक्तौ घटाघवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्था-

पदवाच्यमभ्युपगन्तव्यम् । एवं सति घटादेर्न सर्वदा भानप्रसङ्गः । अनावृतचैतन्य-

सम्बन्धस्यैव भानप्रयोजकत्वात् । तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न

स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रम् । तद्भासकस्य तदनि-

वर्तकत्वात् नापि वृत्त्युपहितं चैतन्यम् । परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्ष-

वृत्तिव्यावृत्तवृत्तिविशेषस्य,
तदुपहितचैतन्यस्य वाऽऽवरणभङ्गजनकत्वमित्या-
तदुपहितचैतन्यस्य
 

वरणाभिभवार्था वृत्तिरित्युच्यते । सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्राप्यविद्यो-