This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोश
 
-
 
हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् (ब्र०

सू० शा० भा० उपो० भाम०) । अत एव वेदान्तसारे - विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं

प्रमेयम् । तत्रैव वेदान्तानां तात्पर्यात् । सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत्

प्रमाणस्य च बोध्यबोधकभावलक्षणः । अत एव च - युष्मप्रत्ययगोचरस्य विषयस्य

तद्धर्माणां चाध्यासः (ब्र० सू० उपो०) । यथा च - "विषयं लक्षयति - विषय इति ।

अविद्याध्यारोपितसर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविरुद्धधर्मपरित्यागेनावशिष्टं यज्जीव-

ब्रह्मैक्यं स विषयः (वे० सा० ) ।
 
४०९
 

 
विष्णु:
 
-
 
-
 
, विष्णु
१. पूर्णात्मा । यथा च - "यथैतादृशं यस्य लेशमात्रलाभोऽपि

कृतार्थताहेतुस्तद् वैष्णवं विष्णोः पूर्णात्मनः स्वरूपभूतं सुखमवाप्तवन्तः किमन्य-

द्विषयसुखमर्थनीयं न किमपीत्यर्थ:" (सं० शा० १ । ३०२ अ० टी०) । यथा च

"परमात्मस्वरूप इत्यर्थ: (तत्रैव १ । २३९ अ० टी०) । २. नारायणः । यथा - भगवतः

नित्यसिद्धनिरङ्कुशैश्वर्यवतो विष्णोः श्रीनारायणस्य जगत्कारणतयोपलक्षितस्य

यत्परमं पदं सत्यज्ञानाद्यात्मकं स्वरूपं परिगृहीतादेयं यथा स्यात्तथा तच्छब्देन समर्पितं

विरुद्धांशप्रहाणेन तच्छब्दलक्षितमिति यावत् (तत्रैव १/२६५ अ० टी० ) ।
 

 
विष्णोः परमपदम्, विष्णु परमपद
ब्रह्म । यथा - एवंविधं यद् विष्णोः परं पदं

ब्रह्माख्यममुत्रामुस्मिन्पदे किं लक्षणेऽतिबुद्धिमनसि । अतिक्रान्ते बुद्धिमनसी येन तत्तथा

तस्मिन्सङ्कल्पाध्यवसायागोचरेऽपि विष्णोः परमे पदे शब्दशक्तिर्ग्रहीतुं शक्येति योजना

(सं० शा० १/३५८ अ० टी०) ।
 
-
 
बि

 
वि
सिकः, विसिक
(विसिच्– शब्दः) विवसनः, दिगम्बरः आर्हतः । यथा - "यथा

रक्तपटानां विज्ञानावस्थानेऽपि तत्सन्ताननित्यता तद्वद् विसिचामपीत्याशङ्क्यानेन

सूत्रेणोत्तरमुच्यते (ब्र० सू० २ । २ । ३५ शा० भा०) । यथा च – "विसिचो विवसनाः"

(तत्रैव भाम०) । यथा च - "सिग वस्त्रं विगतं येभ्यस्ते विसिचः (तत्रैव वे०

क० त० ) ।
 
-
 

 
विस्तारः - , विस्तार
उत्पत्तिः, ब्रह्मणो जगद्रूपेण विस्तार इति यावत् । यथा - "तत

एव च तस्मादेव च विस्तारमुत्पत्तिविकासमात्मनः प्राण आत्मत आशा आत्मत स्मर

आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतो

भूरात्मनोऽस्मिन्नेवमादिप्रकारैर्विस्तारं यदा पश्यति ब्रह्म सम्पद्यते बह्मैव, भवति तदा"

(गी० १३/३० शा० भा० ) । यथा च - "भूतानां वियदादीनां जरायुजादीनां च
 
-