This page has not been fully proofread.

४०८
 
शाङ्करवेदान्तकोशः
 
पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति । अत्र भामत्यां
सर्वेऽपि विवसनसिद्धान्ताः संक्षेपविस्तराभ्यां निरूपिताः । यथा च - दिगम्बरः।
अर्हन्नामको जिनः । एतन्मते जीवः शरीरपरिमाणः । मोक्षस्तु सप्तभङ्गीनयस्तु
अत्र शिष्टं
स्याद्वादशब्दव्याख्यानावसरे सम्पादयिष्यते ।
तु नास्तिक
इत्यादितत्तच्छब्दव्याख्याने दृश्यम् (न्यायकोशः) ।
 
बिशरारवः – "विशरारवो हि प्रदीपावयवाः" (ब्र० सू० २।२।३४ भाम०) ।
 
-
 
-
 
विशुद्धिः– प्रपञ्चशून्यम् । यथा - "विशुद्धिश्च प्रपञ्चराहित्यम्" (सं० शा०
५६ सु० टी० ) ।
 
विशेषणम् - विशेषणं च कार्यान्वयि व्यावर्तकम् । उपाधिश्च कार्य्यानन्वयी
व्यावर्तको वर्तमानश्च । रूपविशिष्टो घटोऽनित्य इत्यत्र रूपं विशेषणम् । कर्णशष्कुल्य-
वच्छिन्नं नभः श्रोत्रमित्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधि नैयायिकैः परिचायक
इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासक-
चैतन्योपाधित्वम् (वे० प० १ प०) । एतेन विशेषणत्वे अन्तःकरणावच्छिन्नं चैतन्यं
जीव उच्यते, उपाधित्वे च अन्तःकरणोपहितं चैतन्यं जीवसाक्षि उच्यते ।
 
-
 
विश्वः - १. वेदः । यथा - "विश्वशब्दो वेदविषयः" (सं० शा० ३।२४५
अ० टी० ) ।
 
विश्वम् - २. संसारव्यष्टिः । यथा – "अस्य विश्वस्य एषा एतद्शरीरव्यक्ति-
लक्षणा व्यष्टिः स्थूलशरीरम्, अन्नविकारत्वाद् एव हेतोः अन्नमयकोशः, स्थूलभोगाय-
तनत्वात् स्थूल इन्द्रियैरर्थोपलम्भाच्च जाग्रदिति चोच्यते (वे० सा०) । ३. नामरूपम् ।
यथा – "नामरूपमिति विश्वरूपनिर्देशो वाच्यवाचकात्मकमित्यर्थः । नामरूपं विश्वं
निःश्वासादिप्रख्यं निःश्वासादितुल्यं विष्णोरुत्थितमिति यद् वेद आह तवर्णितेन वर्त्मना
तथ्यं यथार्थं नास्य बाधकमस्तीति योजना" (सं० शा० ३।२७३ अ० टी०) । ४.
"चित्रपटस्थानीयं जगत् । यथा - अनादित्वादिसर्वविशेषणविशिष्टं विश्वं तपिकर्मीभूतं
तापयन्तं त्वां परज्योतीरूपं पश्यामि जानामि । चित्रपटस्थानीयं विश्वरूपं
सकलकारकात्मकधीवासनोपेतं येन ज्योतिषा प्रकाशते तदेव त्वमसीति जानामि भावः"
(गी० ११/१९ नी० क०) ।
 
-
 
विषयः- बुद्धीन्द्रियदेहैर्यदवगाहते स विषयः । सर्वे विषयाः ज्ञानं विषयि ।
• यथा- चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः । एते