2023-03-12 05:01:51 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
-
बिवर्तः - अतात्त्विकोऽन्यथाभावः । यथा- रज्जौ सर्पः, शुक्तौ रजतमित्यादि ।
यथा - परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादान-
विषमसत्ताककार्यापत्तिः । प्रातिभासिकरजतं चाविद्यापेक्षया परिणामः । चैतन्यापेक्षया
च विवर्त इति चोच्यते । अविद्यापरिणामरूपं च तद्रजतमविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये
वर्तते । अस्मन्मंते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् (वे०
प० १ प०) । यथा च - सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः । अतत्त्वतोऽन्यथाप्रथा
विवर्त इत्युदीरितः (वे० सा० ४७) । अत्र कारणमध्यासः । येन सद्ब्रह्मणि असतः
प्रपञ्चस्य प्रतीतिः भ्रान्निरूपा । अयं चाध्यासः अविद्येति मन्यते ।
४०७
यथा च - अतत्वतोऽन्यथाभावो विवर्तः। न केवलं ब्रह्मविवर्तत्वम्, अपितु
जीवानामपि चराचरशरीरोपाधिकानां तत्प्रतिविम्बत्वेन तद्विवर्तत इत्याह यतश्चेति
(भामती मङ्गलाचरणे वे० क० त० ) । यथा च – "विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणा-
मिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते । तस्मात् परमात्मविवर्ततया
प्रपञ्चस्तद्योनिः, भुजङ्गः इव रज्जुविवर्ततया तद्योनिः, न तु परिणामतया (ब्र० सू०
१।२।२१ भाम०) । यथा च - "तत्त्वतोऽन्यथाभावः परिणामः अतत्त्वतोऽन्यथाभावो
विवर्त इति वा; धर्मिसमसत्ताकोऽन्यथा परिणामस्तत्समसत्ताको विवर्त इति वा "
(ब्र० सू० १।२।२१ वे० क० त० प०) । यथा च - "अवस्थान्तरभानं तु विवर्तो
रज्जुसर्पवत् । निरंशेऽप्यस्त्यसौ व्योग्नि तलमालिन्यकल्पनात् (प० द० १३।९)।
विवर्तः १ . (क) अतात्त्विकोऽन्यथाभावः । स च अपरित्यक्तपूर्वरूपस्य रूपान्तर-
प्रकारकप्रतीतिविषयत्वम् (वै० सा० द० पृ० २) । यथा - मायावादिमते परब्रह्मणि
सर्वस्य जगतो विवर्तः। (ख) पूर्वरूपापरित्यागेनासत्यनानाकारप्रतिभासः । यथा
शुक्तिकायां रजतस्य रज्ज्वां वा सर्पस्य प्रतीतिः (अथर्वभाष्ये सायणः) । शिष्टं तु
वादशब्दव्याख्याने दृश्यम् । (ग) स्वरूपपरित्यागेन रूपान्तरापत्तिर्विवर्तः (सर्व० सं०
पृ० ४२० शं०) । २. नृत्यमिति नर्तका आहुः । ३. समुदायः इति काव्यज्ञा आहुः
(वाच०) । (न्यायकोश:)
-
-
विवसनः – अर्हन् जिनो दिगम्बरश्च । यथा - निरस्तः सुगतसमयः । विवसन-
समय इदानीं निरस्यते । सप्त चैषां पदार्थाः सम्मता जीवाजीवासवसंवरनिर्जरबन्धमोक्षा
नाम । संक्षेपतस्तु द्वावेव पदार्थों जीवाजीवाख्यौ । यथायोगं तयोरेवेतरान्तर्भावादिति
मन्यन्ते । तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम - जीवास्तिकायः -