2023-03-26 05:53:56 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्कुरवेदान्तकोशः
ग्रन्थेऽस्माभिर्विवेचिते स्तः - १. आत्मख्यातिः । २. असत्ख्यातिः । ३. अख्यातिः ।
४. अन्यथाख्यातिः । ५. अनिर्वचनीयख्यातिः । ६. अपूर्णख्यातिः । ७. यथार्थख्यातिः ।
८.सदसत्ख्यातिः। ९. अभिनवा ख्यातिः । १०. सत्ख्यातिः । ११. प्रसिद्धार्थ-
ख्यातिः । १२. अलौकिकख्यातिः । १३. स्मृतिप्रमोषख्यातिः । १४. निर्विषयख्यातिः ।
यथा च प्रत्यक्षबाधापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः ।
हुतवहानुष्णत्वानुमानवत् (ब्र० सू० उपो० भाम०) । यथा च - स्वप्नज्ञानविषयस्यापि
स्मृतिविभ्रमरूपस्यैवं रूपत्वादिति उपोद्घातभामत्यां वेदान्तकल्पतरौ - स्मृतौ विभ्रमः
स्मृतिविभ्रमः, स्मर्यमाणे स्मर्यमाणरूपान्तरारोप इति यावत् ।
-
विभ्रमशक्तिः
तद्रूपेऽतद्रूपभासनशक्तिः ।
विपरीतार्थप्रदर्शनशक्तिः" (सं० शा० १ । २० सु० टी०) । यथा च "आवरक-
विक्षेपकसामर्थ्ययोः सहजसिद्धत्वादित्यर्थ:" (सं० शा० १ । २० अ० का० टी० ) ।
विमोक्षः
१. मोक्षशब्दवदस्यार्थः । २. मोचनम् ।
-
बि
विरजः
१. धर्माधर्मादिरूपमलरहितः । यथा - विगतरजः रजो नाम धर्माधर्मा-
दिमलम् (बृ० आ० उ० ४।४।२० शा० भा०) ।
विरजाः
जननमरणरूपरजोगुणफलरहितः मुक्तः । यथा – "जननमरणमुक्तः
(ब्रह्मप्राप्तः) एवंवित्सोऽपि विरजाः सन् ब्रह्मप्राप्त्या विमृत्युर्भवतीति वाक्यशेषः"
(का० उ० ६।२ शा० भा०) । यथा च - देवयानेन यथा पर्यङ्कस्थं ब्रह्माभिप्रस्थितस्य
व्यध्वनि सुकृतदुष्कृतयोर्वियोगः कौषितकिनः पर्यडूविद्यायामामनन्ति- स एतं
देवयानं पन्थानमासाद्याग्निलोकमागच्छति (कौ० १ ३ ) । इत्युपक्रम्य स आगच्छति
विरजां नदीं तां मनसैवात्येति तत् सुकृतदुष्कृते विधुनुते (कौ० १।४)।
.... विद्यासामर्थ्येन तयोः (सुकृतदुष्कृतयोः) । क्षयः । स च यदैव विद्याफलामिमुखी
तदैव भवितुमर्हति । तस्मात् प्रागेव सन्नयं सुकृतदुष्कृतक्षयः पश्चात् पठ्यते ।
.....सुकृतदुष्कृतहानमामनन्ति अश्व इव रोमाणि विधूय पापम् -छा० ८।१३।१-
(ब्र० सू० ३।३।२७ शा० भा० ) ।
-
-
बि
विलक्षणम्
१. (क) विजातीयम् । (ख) विभिन्नम् । २. स्वच्छन्दताया
निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवेन्निष्प्रयोजनम्
(अमर० टी० ३।२।२) । इति । ३. दानार्थकल्पितकाञ्चनपुरुषमूर्तियुतशय्याविशेषः
(शु० त०) (मत्स्यपु०) (न्यायकोशः) ।