This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
४०५
 
भवन्ति । नापनीततुषा दुग्थबीजभावा वा । तथा क्लेशावनद्धः कर्माशयो विपाक-

प्ररोही भवति । नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रि-

विधो जातिरायुर्भोग इति । यथा च - अविद्यादयः क्लेशा, कुशलाकुशलानि कर्माणि

तत्फलं विपाकः । तदनुगुणा वासना आशयाः (पा० यो० सू० १।२४ व्या० भा०) ।

यथा च तयोः क्लेशकर्मणोः फलं विपाकः (तत्रैव यो० वा० ) ।
 
-
 
-
 

 
विभक्तम्, विभक्त
पृथक्त्वेन प्रतीयमानम् । यथा - "अविभक्तं च प्रतिदेहं व्योमवदेकं

भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वात्" (गी० १३।१६

शा० भा० ) । यथा च - "विभागमप्राप्तमपि ज्ञेयवस्तुमूढदृष्ट्या विभक्तमिव

दूरदेशस्थमिव चाद्विभिन्नमिव च स्थितम् (तत्रैव नी० क० ) । यथा च - "तथापि

देहतादात्येन प्रतीयमानत्वात् प्रतिदेहं विभक्तमिव च स्थितमौपाधिकत्वेनापारमार्थिको

व्योम्नीव तत्र भेदावभास इत्यर्थ: (तत्रैव म० सू० ) । यथा च - "भूतेषु सर्वप्राणिषु

विभक्तमिव च स्थितं मिथ्याभूतभेदवातीतं जलमात्रे जलचन्द्रवद् देहेष्वेव विभाव्य-

मानत्वात् । 'एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते

जलचन्द्रवत्" इति श्रुतेः (तत्रैव भाष्यो०) । यथा च - "कार्यात्मना विभक्तं च

भिन्नमिवावस्थितं च । समुद्राज्जातं फेनादि समुद्रादन्यन्न भवति तत्पूर्वोक्तं स्वरूपं च

ज्ञेयम् (तत्रैव श्रीधरी) ।
 
-
 

 
विभुः, विभु
व्यापकः । यथा- "विभुं सर्वगतं त्वामाहुरिति सम्बन्धः" (गी०

१०।१२ म० सू०) । यथा च - "विभुं विभवनशीलम्" (तत्रैव भाष्यो०)।
 
बि

 
वि
भूतिः - ति
विस्तारो वैभवञ्च । यथा - "एतां यथोक्तां विभूतिविस्तारं योगं

च युक्तिं चात्मनो घटनमथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योग उच्यते

(गी० १०/७ शा० भा०) । २. वैभवम् ।
 
-
 

 
विभ्रमः - , विभ्रम
भ्रान्तिः, ख्यातिः, ख्यातिश्च चतुर्धा श्रीमण्डनमिश्रेणोक्ता-आत्मख्यातिर-

सत्ख्यातिरख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात् सा विविच्यते । (वि०

वि० १)। "न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति,

अन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य

दर्शनात् । अपि च हेतुमति विभ्रमे तदभावादनुयोगो युज्यते ।.....तस्मात् परमात्मविवर्त्ततया

प्रपञ्चस्तद्योनिः, न तु परिणामतया (ब्र० सू० १/२/२१ भाम०) । यथा च -विभ्रमरूपा

एषा ख्यातिराचार्यमण्डनमिश्रेण चतुप्रकारोक्ता यथोपरि निर्दिष्टा । तदनन्तरं चदुर्दश-