This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
वियर्ययः – मिथ्याज्ञानम् ।
 
यथा - विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठितम्
 
-
 
(पा० यो० सू० १।८) । यथा च - मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति
(त० सं० ) ।
 
४०४
 
१. (अप्रमा) (क) मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः (गौ० वृ०
४।१।३) । अत्र अयथार्थज्ञानमेव नास्ति इति प्रभाकरादय आहुः (प्र० प० पृ०
४) । (ख) वेदान्तिनस्तु विपरीतंनिश्चयः ( प्र० प० पृ० ४) । अत्र विपरीतत्वं च
पुरोवर्तिन्यविद्यमानप्रकारकत्वम् (प्र० प० टी० वेदेशतीर्थी० पृ० १०) । विपरीत-
निश्चयश्च प्रत्यक्षानुमानागमाभासेभ्यो जायते । तत्र प्रत्यक्षाभासजो यथा शुक्तिकायां
इदं रजतमित्यादि । अनुमानाभासजो यथा धूलिपटले धूमभ्रमाद्बह्न्यभाववति वन्य-
नुमितिः। आगमाभासजो यथा- नदीतीरे पञ्च फलानि सन्ति इति प्रतारकवाक्यजन्य-
ज्ञानमित्याहुः (प्र० च० पृ० ८-९) । अत्र प्रत्यक्षाभासविषये विप्रतिपत्तिः । १. प्रतीतं
रजतं देशान्तरे सदेव इति वैशेषिकादय आहुः । २. ज्ञानस्वरूपमेव इति विज्ञानवादिन
आहुः। ३. तत्रैव तात्कालिकमुत्पन्नं सदिति भास्कर आह । ४. न सत् नासत् न
सदसत् किं तु अनिर्वचनीयमेव इति मायावादिनो मन्यन्ते । ५. श्रीमदानन्दतीर्था-
चार्यास्तु असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवात् शुक्तिरेवात्यन्तासद्रजतात्मना
द्रष्टुर्दोषवशात् प्रतिभाति इति प्राहुः (प्र० प० पृ० ४) । (ग) पातञ्जलास्तु
पञ्चविधवृत्त्यन्तर्गतो वृत्तिविंशेष इत्याहुः (पात० सू० पा० १ सू० ६, ८)।
२. संशयः । ३. विपरीतम्। यथा विपर्ययोऽभूत्सकलं जनौकसः (भाग०
८।२२।२९) । इत्यादौ । (न्यायकोशः) ।
 
विपाकः
 
विपर्यासः - १. अविवेकः विपर्यासादविवेकतो यथा जाग्रज्जागरि-
तेऽचिन्त्यान्भावानशक्यचिन्तनीयान् रज्जुसर्पादीन्भूतत्ववत् परमार्थवत् स्पृशन्निव
विकल्पयेदित्यर्थः (मा० उ० गौ० का० प्र० ४।४४ शा० भा०) । २. वैपरीत्यम् ।
आरब्धफलं कर्म । तेन - रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते
कपूयचरणाः श्वादियोनिम्.... (छा० उ० ५/१०/५) । इति श्रूयते । ब्रह्मसूत्रे ३।१।८
शा० भाष्ये च विचारितम् । ब्र० सू० ३।३।३२ भामत्यां यथा च - प्रारब्धविपाकानि
तु कर्माणि । यथा च सति मूले । तद्विपाको जात्यायुर्भोगाः (पा० यो०
सू० २।१३) । अत्र व्यासभाष्यम्- सत्सु क्लेशेषु कर्माशयो विपाकाऽऽरम्भीभवति
नोच्छिन्नमूलः । यथा तुषाऽवनद्धा: शालितण्डुला अदग्धवीजभावाः प्ररोहसमर्था
 
1
 
=