This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
४०३
 
स च प्रत्ययो लिंङ्लोट्लेट्तव्यकृत्यप्रत्ययरूपः इति (सि० च०) (म० प्र० ४ पृ०
५८) (त० प्र० ख० ४ पृ० ९३) । ६. प्रवृत्तिपरं वाक्यम् । यथा - ज्योतिष्टोमेन
स्वर्गकापो यजेत (शतपथ०) । ओदनकामस्तण्डुलं पचेत इत्यादि । (ङ) मीमांसकास्तु
अज्ञातार्थज्ञापको वेदभागः (अपूर्वविधिः) । स च तादृशप्रयोजनवदर्थविधानेनार्थवान् ।
तादृशं चार्थं प्रमाणान्तरेणाप्राप्तं विधत्ते । यथा अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादि
इत्याहुः । अयं विधिर्मानान्तरेणाप्राप्तं स्वर्गप्रयोजनवहोमं विधत्ते । अग्निहोत्रहोमेन
स्वर्गं भावयेत इति वाक्यार्थबोध: (लौ० भा० पृ० १३) । यत्र कर्म मानान्तरेण
प्राप्तं तत्र तदुद्देशेन गुणमात्रं विधत्ते । यथा- दध्ना जुहोति (तै० ब्रा० २/१/५)
(शतप०) इति । (च) धर्मार्थसादकव्यापारो विधिः (सर्व० सं० पृ० १६९ नकुली०) ।
(छ) अज्ञातस्थानुष्ठेयत्वकथनं विधिः (जै० न्या० १।४ अधि० ६) । (ज) विधिनमि
विधिप्रत्ययार्थः । अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन प्रतिपाद्यतेसौ विधिस्त्विष्ट-
साधनत्वादिः (म० प्र० -४ पृ० ५८) इति । (न्यायकोशः) ।
 
विधिशेषः – पूर्वमीमांसायां विधिवाक्येषु अपूर्वविध्यादिपरेषु विधिशेषो भवति ।
तवद् वेदान्तवाक्येषु विधिशेषः । यथा - "यत्पुनरुक्तं श्रवणात्पराचीनयो-
र्मनननिदिध्यासनयोर्दर्शनाद् विधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न,
अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा
विधिशेषत्वम् । न तु तदस्ति; मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात्"
(ब्र० सू० १/१/४ शा० भा० ) ।
 
-
 
बिधृतिः – धारणम् । परमेश्वरस्य लक्षणं शक्तिर्वा । यथा- एवमिह प्रकृते
दहरे विधारणक्षमं महिमानं दर्शयति । अयं च महिमा परमेश्वर एव श्रुत्यन्तरा-
दुपलभ्यते 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादेः ।
.....एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः" (ब्र० सू० १ ।३।१६ शा० भा०) ।
यथा- "धृतेश्च परमेश्वर एव दहराकाशः । कुतः । अस्य धारणलक्षणस्य
महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः" (तत्रैव भाम० ) । यथा च - सौत्रो
धृतिशब्दो भाववचनः । धृतेश्च परमेश्वर एव दहराकाशः । कुत अस्य धारणस्य
म. हिम्रोऽस्पिन्नेवेश्वर एव श्रुत्त्यन्तरेषूपलब्धेः । (तत्रैव भाम०)
 
-
 
-